क्षुद्रजन्तवः

2-4-8 क्षुद्रजन्तवः एकवचनम् द्वन्द्वः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अपचितपरिमाणः क्षुद्रः। क्षुद्रजन्तुवाचिनां द्वन्द्व एकवद् भवति। दंशमशकम्। यूकालिक्षम्। क्षुद्रजन्तव इति किम्? ब्राह्मणक्षत्रियौ।

    क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः।

शतं वा प्रसृतौ येषां केचिदा नकुलादपि॥

आ नकुलादपीतीयमेव स्मृतिः प्रमाणम्, इतरासां तद्विरोधात्॥

Siddhanta Kaumudi

Up

एषां समाहारे द्वन्द्व एकवत्स्यात् । यूकालिक्षम् । आ नकुलात्क्षुद्रजन्तवः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्षुद्रजन्तवः>> - क्षुद्रजन्तवः । एतेषां द्वन्द्व एकबदित्यर्थः । फलितमाह — एषां समाहारे [एव ]द्वन्द्व इति । यूकालिक्षमिति । यूकाश्च लिक्षाश्चेति विग्रहः । केशबहुले शिरःप्रदेसे स्वेदजा जन्तविशेषा यूकाः । लिक्षाश्च प्रसिद्धाः । एकवत्त्वं, नपुंसकह्रस्वत्वं च । आ नकुलादिति ।नकुलपर्यन्ताः क्षुद्रजन्तवः॑ इति भाष्यादिति भावः ।

Padamanjari

Up

क्षुद्रजन्तवः॥ क्षुद्रशब्दोऽयमस्त्येव कृपणे - क्षुद्रोऽयं पुरुष इति, अस्त्यङ्गहोने शीलहीने च -'क्षुद्राभ्यो वा' इति, अस्ति परिमाणापचये - क्षुद्रास्तण्डुला इति; इह तु जन्तुशब्दसमभिव्याहारादन्तिमस्य ग्रहणमित्याह - अपचितपरिमाणः क्षुद्र इति। अल्पशरीर इत्यर्थः। अपचयस्यापेक्षिकत्वादनवस्था मा भूदिति स्मृतिमुपन्यस्यति - क्षुद्रजन्तुरनस्थिः स्यादिति। यस्यास्थीति न विद्यन्ते सोऽनस्थिः। स्मृत्यन्तरमाह - अथ वेति। क्षोतव्यः क्षुद्रः, अर्हार्थेऽपि'स्फायीतञ्चि' इत्यादिना रक् प्रत्ययः, यः क्षुद्यमानोऽपि न म्रियते, यथा - जलूका, स क्षुद्रजन्तुः; यस्तु म्रियते स पापनिमितत्वान्न क्षोदार्हः। क्षुद्र एव य इति व्युत्पत्तिवशादेवायं प्रसिद्ध इत्यर्थः। स्मृत्यन्तरमाह - शतं वेति। प्रसृतिरञ्जलेरर्द्धं येषां शतं प्रसृतौ भवति, शतेनार्द्धाञ्जलिः पूर्यत इत्यर्थः। स्मृत्यन्तरमाह - केचिदा नकुलादपीति। नकुलपर्यन्ताः क्षुद्रजन्तव इत्यर्थः। इतरासां तद्विरोधादिति। अनस्थादिभिः स्मृतिभिर्ये प्रयोगा उपदर्शिता न ते सर्वे ताभिः संगृह्यन्त इत्ययमत्र विरोधः॥