2-4-79 तनादिभ्यः तथासोः सिचः विभाषा
index: 2.4.79 sutra: तनादिभ्यस्तथासोः
तनादिभ्य उत्तरस्य सिचः तथासोः परतो विभाषा लुग् भवति। अतत, अतथाः। अतनिष्ट, अतनिष्ठाः। असात, असाथाः। असनिष्ट, असनिष्ठाः। जनसनखनां संज्ञलोः 6.4.42 इत्यात्वम्। थासा साहचर्यादात्मनेपदस्य तशब्दस्य ग्रहनम्। प्रस्मैपदे न भवति, अतनिष्ट यूयम्।
index: 2.4.79 sutra: तनादिभ्यस्तथासोः
॥ अथ तिङन्ततनादिप्रकरणम् ॥ अथ सप्त स्वरितेतः ।{$ {!1463 तनु!} विस्तारे$} । तनादिकृञ्भ्य उः <{SK2466}> । तनोति । तन्वः-तनुवः । तनुते । ततान । तेने । तनु । अतनीत्-अतानीत् ।
तनादेः सिचो वा लुक् स्यात्तथासोः परतः । थासा साहचर्यादेकवचनं तशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट । अनुदात्तोपदेश - <{SK2428}> इत्यनुनासिकलोपः । तङि । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः ।{$ {!1464 षणु!} दाने$} । सनोति । सनुते । ये विभाषा <{SK2319}> । सायात् । सन्यात् । जनसन - <{SK2504}>इत्यात्वम् । असात । असनिष्ट । असाथाः । असनिष्ठाः ।{$ {!1465 क्षणु!} हिंसायाम्$} । क्षणोति । क्षणुते । ह्मयन्त - <{SK2299}> इति न वृद्धिः । अक्षणीत् । अक्षत । अक्षणिष्ट । अक्षथाः । अक्षणिष्ठाः ।{$ {!1466 क्षिणु!} च$} । उप्रत्ययनिमित्तो लघूपधगुणः । [(परिभाषा - ) संज्ञापूर्वको विधिरनित्यः] इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । क्षिणोति । क्षेणोति । क्षेणितासि । क्षेणितासे । अक्षेणीत् । अक्षित । अक्षेणिष्ट ।{$ {!1467 ऋणु!} गतौ ऋणोति$} । अर्णोति । अर्णुतः । अर्ण्वन्ति । आनर्ण । आनृणे । अर्णितासे । आर्णीत् । आर्त । आर्णिष्ट । आर्थाः । आर्णिष्ठाः ।{$ {!1468 तृणु!} अदने$} । तृणोति । तर्णोति । तृणुते ।{$ {!1469 घृणु!} दीप्तौ$} । जघर्ण । जघृणे ॥ अथ द्वावनुदात्तेतौ ॥{$ {!1470 वनु!} याचने$} । वनुते । ववने । चान्द्रमते परस्मैपदी । वनोति । ववान ।{$ {!1471 मनु!} अवबोधने$} । मनुते । मेने ।{$ {!1472 डुकृञ्!} करणे$} । करोति । अत उत्सार्वधातुके <{SK2467}> कुरुतः । यण् । न भकुर्छुराम् <{SK1629}> इति न दीर्घः । कुर्वन्ति ॥
index: 2.4.79 sutra: तनादिभ्यस्तथासोः
तनादिकृञ्भ्यः उः <{LSK570}> - {! 1 तनु !} विस्तारे $} ॥ तनोति, तनुते । ततान, तेने । तनितासि, तनितासे । तनिष्यति, तनिष्यते । तनोतु । तनुताम् । अतनोत्, अतनुत, तनुयात्, तन्वीत । तन्यात्, तनिषीष्ट । अतानीत्, अतनीत् ॥ तनादिभ्यस्तथासोः । तनादेः सिचो वा लुक् स्यात्तथासोः। अतत, अतनिष्ट। अतथाः, अतनिष्टाः। अतनिष्यत्, अतनिष्यत॥ {$ {! 2 षणु !} दाने $} ॥ सनोति, सनुते॥
index: 2.4.79 sutra: तनादिभ्यस्तथासोः
तनादिभ्यस्तथासोः - तनादिभ्यस्तथासोः ।गातिस्ते॑त्यतः सिचेति, 'ण्यक्षत्रियार्षे' त्यतो लुगिति,विभाषा घ्राधे॑डित्यतो विभाषेति चानुवर्तते । तदाह - तनादेरित्यादिना । एकवचनशब्दो गृह्रत इति । नतु लुङादेशपरस्मैपदमध्यमपुरुषबहुवचनतादेशोऽपीत्यर्थः । यूयमिति । लुङि मध्यमपुरुषबुहवचने सिचि वृद्धिविकल्पे सति अतनिष्ट अतानिष्टेत्यत्र सिचो नायं लुग्विकल्प इत्यर्थः । तदेवं प्रत्युदाहरममुक्त्तवा सूत्रस्योदाहरणं वक्ष्यन्प्रक्रियां दर्शयति — अनुदात्तोदेशेत्यनुसाकिलोपस्तङीति । तङि प्रथमैकवचने, तशब्दे मध्यमपुरुषैकवचने, तशब्दे मध्यमपुरुषैकवचने थासि च सिचो लुकिअनुदात्तोपदेसे॑ति नकारस्य लोप इत्यर्थः । तदाह — अतत अतनिष्टेति । अतथाः अतनिष्ठा इति च । अतनिषातामित्यादि सुगमम् । षणु दाने । षोपदेशोऽयम् । तनुवद्रूपाणि । असातेति । सिचो लुक्पक्षे रूपम् । असनिष्टेति । इट् । झलादिपरकत्वाऽभावादात्त्वं नेति भावः । क्षणुधातुरदुपधः ।वज्रेऽध्वर्युः क्षण्वीते॑ति तैत्तिरीये । क्षिणु चेति । इदुपधः । अयमपि हिंसायमित्यर्थः ।वज्रेऽध्वर्युः क्षिण्वीते॑ति शाखान्तरं शाबरभाष्ये उदाहृतम् । ननु क्षिणोतीत्यत्र उप्रत्ययमाश्रित्य इकारस्य लघूपधगुणः कस्मान्नेत्यत आह — उप्रत्ययनिमित्त इति । ऋणु गतौ । अत्रापि क्षिणुवन्मतभेदाल्लघूपधगुणतदभावौ । तदाह — ऋणोति अर्मोतीति.एवमग्रेऽपि । अर्ण्वन्तीति ।इको यणची॑ति यणिति भावः । डु कृञ् करणे । करोतीति । उप्रत्यमाश्रित्य ऋकारस्य गुणः । रपरत्वम् । उकारस्य तु तिपमाश्रित्यगुणः । कुरुत इति । तसो ङित्त्वादुकारस्य न गुणः । रकुरु अन्तीति स्थिते आह — यणिति ।इको यणचीत्यनेने॑ति शेषः । उकारस्य यणि कुर्व् अन्तीति स्थितेहलि चे॑ति दीर्घमाशङ्क्याह — नभेति । वसि मसि चलोपस्चास्यान्यतरस्या॑मित्युकारलोपविकल्पे प्राप्ते — नित्यं करोतेः ।उतश्च प्रत्यया॑दित्यनुवर्तते,लोपश्चास्यान्यतरस्या॑मित्यतो लोपः, म्वोरिति च । तदाह- - करोतेरिति । चकर्थेति ।कृसृभृवृ॑इति नेडिति भावः । अजन्तत्वेऽपि ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट् । करिष्यतीति । करोतु- कुरुतात् । कुरु । करवाणि । कुरुताम् । कुर्वाताम् । करवै करवावहै करवामहै । अकरोत् अकुरुताम् । अकुरुत अकुर्वाताम् । विधिलिङि कुरु यात् इति स्थिते — ये च ।लोपश्चास्यान्यतरस्या॑मित्यतो लोप इति, अस्येति चानुवर्तते । अस्येत्यनेन पूर्वसूत्रे उत इत्युपात्त उत्परामृस्यते ।नित्यं करोते॑रित्यतः करोतेरित्यनुवर्तते । अङ्गाक्षिप्तः प्रत्ययो यकारेण विशेष्यते, तदादिविधिः । तदाह - कृञ उलोप इति । आशिषि क्रियादिति । 'रिङ् शयग्लिङ्क्षु' इति रिङिति भावः । कृषीष्टेति ।उश्चे॑ति कित्त्वान्न गुण इति भावः । अकार्षीदिति । सिचि वृद्धौ रपरत्वमिति भावः । ननु लुङ्स्तङि अकृ स् त इति स्थितेतनादिभ्यस्तथासो॑रिति सिचो लुकि अकृतेतीष्टं सिद्ध्यति । सिचो लुगभावे तु सकारः श्रूयेतेत्यत आह - तनादिभ्य इत्यादि ।
index: 2.4.79 sutra: तनादिभ्यस्तथासोः
तनादिभ्यस्तथासोः॥ उदाहरणेषु स्वरितेत्वादात्मनेपदम्। थासा साहचर्यादिति। यद्यपि तावदयं तशब्दो द्दष्टापचारः - अस्त्यात्मनेपदमस्ति च परस्मैपदम्, अस्ति चैकवचनमस्ति च बहुवचनम्। अयं तु खलु थाः शब्दोऽद्दष्टापचार - आत्मनेपदमेकवचनं च, तस्यास्य कोऽन्यः सहायो भवितुमर्हति, अन्यदत आत्मनेपदादेकवचनाच्चेति भावः। आत्मनेपदस्येति। उपलक्षणमेतत्। एकवचनस्येत्यपि द्रष्टव्यम्॥