विशिष्टलिङ्गो नदी देशोऽग्रामाः

2-4-7 विशिष्टलिङ्गः नदी देशः अग्रामाः एकवचनम् द्वन्द्वः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

विशिष्टलिङ्गानां भिन्नलिङ्गानां नदीवाचिनां शब्दानां देशवाचिनां च ग्रामवर्जितानां द्वन्द्व एकवद् भवति। नद्यवयवो द्वन्द्वो नदीत्युच्यते, देशावयवश्च देशः। नदी देश इत्यसमासनिर्देश एवायम्। उद्ध्यश्चेरावती च , उद्ध्येरावती। गङ्गाशोणम्। देशः खल्वपि — कुरवश्च कुरुक्षेत्रं च, कुरुकुरुक्षेत्रम्। कुरुकुरुजाङ्गलम्। विशिष्टलिङ्ग इति किम्? गङ्गायमुने। मद्रकेकयाः। नदी देश इति किम्? कुक्कुटमयूर्यौ। अग्रामा इति किम्? जाम्बवश्च शालूकिनी च, जाम्बवशालूकिन्यौ। नदीग्रहणमदेशत्वात्। जनपदो हि देशः। तथा च पर्वतानां ग्रहणंन भवति। कैलासश्च गन्धमादनं च, कैलासगन्धमादने॥ अग्रामा इत्यत्र नगराणां प्रतिषेधो वक्तव्यः॥ इह मा भूत् — मथुरा च पाटलिपुत्रं च, मथुरापाटलिपुत्रम्॥ उभयतश्च ग्रामाणां प्रतिषेधो वक्तव्यः॥ सौर्यं च नगरम्, कोतवतं च ग्रामः, सौर्यकेतवते॥

Siddhanta Kaumudi

Up

ग्रामवर्ज्यनदीदेशवाचिनां भिन्नलिङ्गानां समाहारे द्वन्द्व एकवत्स्यात् । उद्ध्यश्च इरावती च उद्ध्येरावति । गङ्गा च शोणश्च गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । भिन्नलिङ्गानां किम् । गङ्गायमुने । मद्रकेकयाः । अग्रामाः किम् । जाम्बवं नगरम् । शालूकिनी ग्रामः । जाम्बवशालूकिन्यौ ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विशिष्टलिङ्गो नदी देशोऽग्रामाः>> - विसिष्टलिङ्गो नदीदेशोऽग्रामाः । अग्रामा॑ इति च्छेदः । व्यत्ययेन बहुत्वे एकवचनम् । विपूर्वकशिषधातुर्भेदेवर्ततेविशेषणं विशेष्येणे॑त्यादौ यथा । विशिष्टं लिङ्गं येषामिति विग्रहः । तथा च ग्रामवाचकभिन्ना भिन्नलिङ्गका ये नदीवाचिनो, ये देशवाचिनश्च तेषा द्विन्द्व एकवत्स्यादिति लभ्यते । तदाह — ग्रामवर्जेति । समाहारे द्वन्द्वः स्यादिति । एकवत्त्वविधेः फलाभिप्रायमेतत् । अस्यैकवद्भावप्रकरणस्य समाहार एव द्वन्द्व इति नियमार्थताया अनुपदमेवोक्तत्वात् । उद्द्यश्चेति । उद्ध्यो ना नदविशेषः । इरावती नाम कचिन्नदी । तयोर्नदीविशेषवाचकत्वादेकवत्त्वम्, नदीशब्देन नदस्यापि ग्रहणात्, अन्यथा भिन्नलिङ्गत्वाऽसम्भवादिति भावः । जाम्बवशालूकिन्याविति । 'अग्रामाः' इत्यनेन ग्रामावयवकद्वन्द्वपर्युदासो विवक्षितः । अयं च द्वन्द्वे नगरग्रामोभयावयवकोऽपि ग्रामावयवक इति तस्य पर्युदास इति भावः ।

Padamanjari

Up

विशिष्टलिङ्गो नदी देशोऽग्रामाः॥ विशिष्टलिङ्गानामित्यस्य विवरणम् - भिन्नलिङ्गानामिति। विपूर्वः शिषिर्भिदिना समानार्थः। तथा च भेदक विशेषणं भेद्यं विशेष्यमित्युच्यते।'क्तेन नञ्विशिष्टेन' इत्यत्रापि भेदद्वारेणैवाधिक्यमर्थो व्याख्यातः - यस्य हि नञ् भेदकः स नञाधिको भवति। नदीवाचिनामित्यादि। कथं तर्हि सूत्रे विशिष्टलिङ्गादिशब्दानां द्वन्द्वेन सामानाधिकरण्यमित्याह - नद्यवयव इत्यादिना। अग्रामावयवोऽग्राम इत्यपि द्रष्टव्यम्। अग्रामा इति चैकवचनस्थाने बहुवचनम्। असमासनिर्देश एवायमिति। समासे हि व्यतिकीर्णावयो द्वन्द्व एकवत्स्यात्। गङ्गाकुरुक्षेत्रे इति समासो हि भवन्नितरेतरयोगे चेद् द्विवचनप्रसङ्गः, समाहारे चेन्नपुंसकत्वप्रसङ्ग इति भावः। उध्यैरावतीति। ठुज्झ उत्सर्गेऽ,'भिद्योध्यौ नदे' । देशः खल्वपीति। उदाह्रियत इति शेषः जाम्बवशालूकिन्याविति। जाम्बवं नगरम्, शालूकिनी ग्रामः, तत्रोभयतश्च ग्रामाणामिति प्रतिषेध एव भवति। ग्रामोभयावयवस्तु द्वन्द्वो नोदाहृतः। जनपदो हि देश इति। जना यत्र सञ्चरन्ति स देश इत्यर्थः। अवश्यं जनपदो देश इत्यङ्गीकर्तव्यमित्याह - तथा चेति। ग्रामे नाध्येयम्। अभक्ष्या ग्रामकुक्कुटा इत्यादौ ग्रामग्रहणेन नगरमपि गृह्यते, तद्वदिहापिनगरावयवस्यापि द्वन्द्वस्यात्र प्रतिषेधः स्यात्, ज्ञापकात्सिद्धम्, यदयम्'प्राचां ग्रामनगरावयस्यापि द्वन्द्वस्यात्र प्रतिषेधः स्यात्, ज्ञापकात्सिद्धम्, ठ्प्राचां ग्रामनगराणाम्' इति ग्रामग्रहणे नगरग्रहणं करोति, तज्ज्ञापयति - इह शास्त्रे ग्रामग्रहणे न नगरं गृह्यत इति? नैतत्सुष्ठूअच्यते, वक्ष्यति हि तत्र'ग्रामत्वादेव सिद्धे नगरग्रहणं प्रवृत्तिभेदज्ञापनार्थम्, ग्रामग्रहणमङ्गविशेषणम् - पूर्वैषुकामशमी, नगरग्रहणं तूतरपदविशेषणम् - पूर्वपाटलिपुत्रकः' इति, वाहीकग्रामेभ्यश्च उदीच्यग्रामाच्चेत्यादौ ग्रामग्रहणेन नगरग्रहणं न स्यातस्मादाह - अग्राम इत्यत्र नगरप्रतिषेध इति। ग्रामाश्रयस्य प्रतिषेधस्य प्रतिषेध इत्यर्थः। उभयतश्चेति। ग्रामनगरात्मके उभयस्मिन्सति ग्रामाश्रयः प्रतिषेध एव वक्तव्यः, न पुनर्नगराश्रयः प्रतिषेध इत्यर्थः॥