बहुलं छन्दसि

2-4-76 बहुलं छन्दसि

Kashika

Up

index: 2.4.76 sutra: बहुलं छन्दसि


छन्दसि विषये बहुलं शपः श्लुर्भवति। यत्रोक्तं तत्रं न भवति, अन्यत्र अपि भवति। जुहोत्यादिभ्यस्तावन् न भवति दाति प्रियाणि। धाति देवम्। अन्येभ्यश्च भवति पूर्णां विवष्टि। जनिमा विवक्ति।

Siddhanta Kaumudi

Up

index: 2.4.76 sutra: बहुलं छन्दसि


दाति प्रियाणिचिद्वसु (दाति॑ प्रि॒याणि॑चि॒द्वसु॑) । अन्यत्रापि । पूर्णां विवष्टि ॥