2-4-69 उपकादिभ्यः अन्यतरस्याम् अद्वन्द्वे बहुषु तेन एव अस्त्रियाम् गोत्रे
उपक इत्येवमादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग् भवत्यन्यतरस्यां द्वन्द्वे चाद्वन्द्वे च। अद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्त्यर्थम्। एतेषां च मध्ये त्रयो द्वन्द्वास्तिककितवादिषु पठ्यन्ते — उपकलमकाः, भ्रष्टककपिष्ठलाः, कृष्णाजिनकृष्णसुन्दरा इति। तेषां पूर्वेण नित्यमेव लुग् भवति। अद्वन्द्वे त्वनेन विकल्पः। उपकाः, औपकायनाः। लमकाः, लामकायनाः। भ्रष्टकाः, भ्राष्टकयः। कपिष्ठलाः,कापिष्ठलयः। कृष्णाजिनाः, कार्ष्णाजिनयः। कृष्णसुन्दराः, कार्ष्णसुन्दरय इति। परिशिष्टानां च द्वन्द्वेऽद्वन्द्वे च विकल्प इति। पण्डारक। अण्डारक। गडुक। सुपर्यक। सुपिष्ठ। मयूरकर्ण। खारीजङ्घ। शलावल। पतञ्जल। कठेरणि। कुषीतक। काशकृत्स्न। निदाघ। कलशीकण्ठ। दामकण्ठ। कृष्णपिङ्गल। कर्णक। पर्णक। जटिलक। बधिरक। जन्तुक। अनुलोम। अर्धपिङ्गलक। प्रतिलोम। प्रतान। अनभिहित॥
एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुग्वा स्यात् द्वन्द्वे चाद्वन्द्वे च । औपकायनाश्च लामकायनाश्च । नडादिभ्यः फक् <{SK1101}> । तस्यलुक् । उपकलमकाः - औपकायनलामकायनाः । भ्राष्ट्रककपिष्ठलाः - भ्राष्ट्रकिकापिष्ठलयः । उपकाः - औपकाः । लमकाः - लामकाः ॥
<<उपकादिभ्योऽन्यतरस्यामद्वन्द्वे>> - उपकादिभ्यो । चकारमध्याह्मत्याह — द्वन्द्वे चेति । एवं च अस्वरितत्वादेव पूर्वसूत्राद्द्वन्द्वग्रहणाननुवृत्त्यैव सिद्धे अद्वन्द्वग्रहणं स्पष्टार्थमेव । नचद्वन्द्वे ने॑ति निषेध एव किं न स्यादिति वाच्यं, द्वन्द्वानामपि गणे पाठात् । तदेतत्सूचयन्द्वन्द्वमुदाहरति — भ्राष्ट्रककपिष्ठला इति । इञो वा लुक् । अद्वन्द्वे उदाहरति-लमकाः लामकायना इति । अआआदिओ लुग्विकल्पः । 'उपका' 'औपकायना' इत्याद्यप्युदाहार्यम् ।
उपकादिभ्योऽन्यतरस्यामद्वन्द्वे॥ द्वन्द्वे चाद्वन्द्वे चेति। कथम् ठद्वन्द्वेऽ इत्युच्यमाने द्वन्द्वे चाद्वन्द्वे च भवति, तदाह - अद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्यर्थमिति। नात्र शास्त्रीयोऽधिकारः स्वरितत्वनिबन्धनो विवक्षितः न हि पूर्वसूत्रे द्वन्द्वशब्द आसक्तस्वरित, तस्माल्लौकिकोऽधिकारो व्यपेक्षालक्षणः। तदिह द्वन्द्वशब्देन तद्विषया व्यपेक्षाभिधीयते, तस्या नञा निषेधः - अद्वन्द्वे इति। किमुक्तं भवति? द्वन्द्व इति नापेक्ष्यत इति, तदनपेक्षायां द्वद्वे चाद्वन्द्वे च भवति। ठद्वन्द्वऽ इत्यस्मिन्नसति लौकिकोऽधिकारो द्वन्द्वस्य शङ्क्येत्, द्वन्द्वचैषामेव परस्परं गृह्यते, तेषां पूर्वेण नित्यं लुग्भवतीति। भाष्ये तु भ्राष्टकिकापिष्ठलय इत्युदाहरणातिककितवादिष्वस्य पाठोऽनार्ष इति निश्चयः॥