2-4-6 जातिः अप्राणिनाम् एकवचनम् द्वन्द्वः च
index: 2.4.6 sutra: जातिरप्राणिनाम्
जातिवाचिनां शब्दानां द्वन्द्व एकवद् भवति प्राणिनो वर्जयित्वा। आराशस्त्रि। धानाशष्कुलि। जातिः इति किम्? नन्दकपाञ्चजन्यौ। अप्राणिनाम् इति किम्? ब्राह्मणक्षत्रियविट्शूद्राः। नञिवयुक्तन्यायेन द्रव्यजातीनामयम् एकवद्भावः, न गुणक्रियाजातीनाम्। रूपरसगन्धस्पर्शाः। गमनाकुञ्चनप्रसारणानि। जाति परत्वे च जातिशब्दानामयम् एकवद्भावो विधीयते, न नियतद्रव्यविवक्षायाम् इह कुण्डे बदरामलकानि तिष्ठन्तीति।
index: 2.4.6 sutra: जातिरप्राणिनाम्
प्राणिवर्ज्यजातिवाचिनां द्वन्द्व एकवत् । धानाशष्कुलि । प्राणिनां तु विट्शूद्राः । द्रव्यजातीयानामेव । नेह । रूपरसौ । गमनाकुञ्चने । जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु बदरामलकानि ॥
index: 2.4.6 sutra: जातिरप्राणिनाम्
जातिरप्राणिनाम् - जातिरप्राणिनां ।जाति॑रिति षष्ठीबहुवचनस्थाने व्यत्ययेन प्रथमा जातिवाचिनामित्यर्थः । धानाशुष्कुलीति । धानाश्च शष्कुल्यश्च तासां समाहार इति विग्रहः । जातिवाचित्वादेकवत्त्वम्, नपुंसकत्वाद्ध्रस्व इति भावः । विट्छूद्रा इति । विशश्च शूद्राश्चेति विग्रहः । द्रव्यजातीयानामेवेति ।अप्राणिना॑मिति पर्युदासे सति नञिवयुक्तन्यायादिदं लभ्यत इति भावः । रूपरसाविति । गुणगतजातिवचावेतौ । गमनाकुञ्चने इति । क्रियागतजातिविशेषवाचिनावेतौ । ननु बदर्याः फलानि बदरामि, आमलक्याः फलान्यामलकानि ।फले लु॑गिति विकारप्रत्ययस्य लुकिलुक्तद्धितलुकी॑ति स्त्रीप्रत्ययस्य लुक् । फलत्वव्याप्यजातिविशेषवाचिनावेतौ । ततश्च बदराणि चामलकानि च बदरामलकं, बदरामलकानीति कथं रूपद्वयम् ,जातिरप्राणिना॑मित्येकवत्त्वस्य नित्यत्वादित्यत आह — जाति प्राधान्ये इति । व्यक्तिविशेषाऽनादरेण सकलतत्तद्व्यक्त्यनुस्यूतजातिविवक्षायामित्यर्थः ।घटमानये॑त्यादौ हि घटादिशब्दानामाकृत्यधिकरणन्यायेन घटत्वादिजातिरर्थः । जातेश्च निराश्रयाया उपस्थित्यसंभवादाश्रयभूतव्यक्त्याकाङ्क्षायामविशेषात्कृत्स्नाप्युपस्थिता । तत्र घटमानयेत्यादिप्रयोगेषु जातेरतीतानागतवर्तमानकृत्स्नव्यक्तीनां च क्रियान्वयाऽसंभवाद्ध्यक्तिविशेषमेव कञ्चिदादाय क्रिया विश्राम्यति । इदमेव च जातेः प्राधान्यं, तत्तज्जात्याश्रयसकलतत्तद्व्यक्तिबोधकत्वात्मकम् । 'घटाः शुक्लाः' इत्यादिप्रयोगेषु पदान्तरसमभिव्याहारादिवसाद्व्यक्तिविशेषामेव जातिरुपस्थापयतीति जातेरप्रधान्यम्, जात्याश्रयसकलव्यक्त्यनुपस्थधापकत्वादिति 'तस्यादितः' इति सूत्रे कैयटे स्पष्टम् । ततश्च फलत्वव्याप्यया बदरत्वजात्या, आमलकत्वजात्या चाऽविशेषात्तदाश्रयसकलव्यक्त्युपस्थितौ बदरामलकमित्येकवद्भावः । द्रव्यविशेषेति ।आरण्यानि बदरामलकानी॑त्यादौ फलत्वव्याप्यबदरत्वामलकत्वादिजातिभ्यामारण्यत्वादिविशेषितकतिपयव्यक्तीनामेवोपस्थितिः, ग्राम्याणां व्यक्तीनामनुपस्थितेस्तयोर्जात्योरप्राधान्यान्ना.डयमेकवद्बाव इत्यर्थः ।क्षीरोदके संपृक्ते॑इत्यन्तादिवत्सूत्रभाष्यप्रयोगोऽत्र लिङ्गमित्याहुः ।
index: 2.4.6 sutra: जातिरप्राणिनाम्
जातिरप्राणिनाम्॥ जातिवाच्यवयवत्वाज्जातिर्द्वन्द्व इति गौणो निर्द्देशः। आराशस्त्रीति। आराउप्रतोदः। धानाशष्कुलीति। षण्णां रसानां कुलं शष्कुली, गौरादिपाठाद्रूपसिद्धिः। नन्दकपाञ्चजन्याविति। सञ्ज्ञाशब्दावेतौ,'खङ्गो' स्यनन्दकः, शङ्खः पाञ्चजन्यः प्रकीर्तितः। जातिपरत्वे चेति। जातिप्राधान्ये इत्यर्थः। न नियतद्रव्यविवक्षायामिति। यदा क्वचिद्देशादौ नियतानां द्रव्यविशेषाणां विवक्षा तदा जातिशब्दत्वेऽप्येकवद्भावो न भवतीत्यर्थः। बदरामलकानीति। फलजातिवाचिनावेतौ॥