2-4-68 तिककितवादिभ्यः द्वन्द्वे बहुषु तेन एव अस्त्रियाम् गोत्रे
तिकादिभ्यः कितवादिभ्यश्च द्वन्द्वे गोत्रप्रत्ययस्य बहुषु लुग् भवति। तैकायनयश्च कैतवायनयश्च। <<तिकादिभ्यः फिञ्>>४.१.१५४। तस्य लुक्। तिककितवाः। वाङ्खरयश्च भाण्डीरथयश्च। <<अत इञ्>> ४.१.९५। तस्य लुक्। वङ्खरभण्डीरथाः। औपकायनाश्च लामकायनाश्च। <<नडादिभ्यःफक्>> ४.१.९९। तस्य लुक्। उपकलमकाः। पाफकयश्च नारकयश्च। <<अत इञ्>> ४.१.९५। तस्य लुक्। पफकनरकाः। बाकनखयश्च श्वागुदपरिणद्धयश्च। <<अत इञ्>>४.१.९५। तस्य लुक्। बकनखश्वगुदपरिणद्धाः। उब्जशब्दाद् <<अत इञ्>> ४.१.९५। ककुभशब्दात् <<शिवादिभ्योऽण्>> ४.१.११२। तयोर्लुक्। औब्जयश्च काकुभाश्च उब्जककुभाः। लाङ्कयश्च शान्तमुखयश्च। <<अत इञ्>> ४.१.९५। तस्य लुक्। लङ्कशान्तमुखाः। उरसशब्दस्तिकादिषु पठ्यते, ततःफिञ्। लङ्कटशब्दादिञ्। तयोर्लुक्। औरसायनयश्च लाङ्कटयश्च, उरसलङ्कटाः। भ्राष्टकयश्च कापिष्ठलयश्च। <<अत इञ्>>४.१.९५। तस्य लुक्। भ्रष्टककपिष्ठलाः। कार्ष्णाजिनयश्च कार्ष्णसुन्दरयश्च। <<अत इञ्>> ४.१.९५। तस्य लुक्। कृष्णाजिनकृष्णसुन्दराः। आग्निवेश्यश्च दासेरकयश्च। अग्निवेशशब्दाद् <<गर्गादिभ्यो यञ्>> ४.१.१०५। दासेरकशब्दाद् <<अत इञ्>> ४.१.९५। तयोर्लुक्। अग्निवेशदासेरकाः॥
एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुक् स्यात् द्वन्द्वे । तैकायनयश्च कैतवायनयश्च ।तिकादिभ्यः फिञ्-<{SK1178}> । तस्य लुक् । तिककितवाः ॥
<<तिककितवादिभ्यो द्वन्द्वे>> - तिककितव । तैकायनयश्च कैतवायनयश्चेति । द्वन्द्वविग्रहप्रदर्शनम् । तिककितवा इति । 'द्वन्द्वे' इति सप्तमीनिर्देशात्पदद्वयादपि फिञो लुक् ।
तिककितवादिभ्यो द्वन्द्वे॥ द्वन्द्वरूपाण्येव गणे पठ।ल्न्ते। तिकादीनि पूर्वपदानि कितवादीन्युतरपदानि, तत्र'तिकादिभ्यो द्वन्द्वे' इत्युच्यमाने पूर्वपदेष्वेव लुगाशङ्क्येत उतरपदेष्वपि यथा स्यादिति तिककितवादिभ्य इत्युक्तम्। आदिशब्दः प्रत्येकमभिसम्बध्यते, तदाह - तिकादिभ्यः कितवादिभ्यश्चेति॥