2-4-67 न गोपवनादिभ्यः बहुषु तेन एव अस्त्रियाम् गोत्रे
गोपवनादिभ्यः परस्य गोत्रप्रत्ययस्य लुग् न भवति। बिदाद्यन्तर्गणोऽयम्। ततोऽञो गोत्रप्रत्ययस्य <<यञञोश्च>> २.४.६४ इति लुक् प्राप्तः प्रतिषिध्यते। गौपवनाः। शैग्रवाः॥ गोपवन। शिग्रु। बिन्दु। भाजन। अश्व। अवतान। श्यामाक। श्वापर्ण। एतावन्त एवाष्टौ गोपवनादयः। परिशिष्टानां हरितादीनां प्रमादपाठः। ते हि चतुर्थे बिदादिषु पठ्यन्ते। तेभ्यश्च बहुषु लुग् भवत्येव, हरिताः। किंदासा इति॥
एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् । बिदाद्यन्तर्गणोऽयम् । गौपवनाः । शैग्रवाः ॥
<<न गोपवनादिभ्यः>> - न गोप । बिदाद्यन्तर्गणोऽयमिति । ततश्च अञःयञञोश्चे॑ति प्राप्तस्य लुङ् नेति भावः ।
न गोपवनादिभ्यः॥ परिशिष्टानां हरितादीनां प्रमादपाठ इति। ननु चेह स्थाने न गोपवनादयः पठ।ल्न्ते, किं तर्हि? चतुर्थ एव बिदादिषु तदुपजीवनेनैतत्प्रवर्तते। अथ चतुर्थ पाठः प्रमादज इत्युज्यते, बिदाद्यञपि तर्हि न प्राप्नोति। अथ गोपवनादिभ्यः परत्र पाठः प्रमादजः पूर्वत्र पाठयः - इत्युच्येत्, एवमपि'हरितादिभ्यो' ञ्ऽ इत्येष विधिर्गोपवनादीनामपि प्राप्नोति। तस्माद्यथाव्यवस्थित एव पाठे मध्ये वृत्करणं वर्तव्यम्, इह वा प्राक् हरितादिभ्य इति वक्तव्यम्। यथोक्तम् -'गोपवानादिभ्यः प्रितिषेध प्राग्घरितादिभ्यः' इति। वृत्तिकारस्तु चतुर्थेऽत्र चपृथक् पाठ्ंअ मन्यते॥