बह्वचः इञः प्राच्यभरतेषु

2-4-66 बह्वचः इञः प्राच्यभरतेषु बहुषु तेन एव अस्त्रियाम् गोत्रे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

बह्वचः प्रातिपदिकाद् य इञ् विहितः प्राच्यगोत्रे भरतगोत्रे च वर्तते, तस्य बहुषु लुग् भवति। पन्नागाराः। मन्थरैषणाः। भरतेषु खल्वपि — युधिष्ठिराः। अर्जुनाः। बह्वच इति किम्? बैकयः। पौष्पयः। प्राच्यभरतेष्विति किम्? बालाकयः। हास्तिदासयः। भरताः प्राच्या एव, तेषां पुनर्गर्हणं ज्ञापनार्थम् — अन्यत्र प्राग्ग्रहणे भरतग्रहणं न भवतीति। तेन <<इञः प्राचाम्>> २.४.६० इति भरतानां युवप्रत्ययस्य लुग् न भवति। आर्जुनिः पिता। आर्जुनायनः पुत्रः॥

Siddhanta Kaumudi

Up

बह्वचः परो य इञ्प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात् । पन्नागाराः । युधिष्ठिराः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<बह्वचः इञः प्राच्यभरतेषु>> - बह्वच इञः । प्राच्ये उदाहरति — पन्नागारा इति । पन्नागारस्यापत्यानीति विग्रहः । अत इञो लुक् । भरतगोत्रे उदाहरति — युधिष्ठिरा इति । युधिष्ठिरस्यापत्यानीति विग्रहः । कुरुलक्षणं ण्यं बाधित्वा बाह्वादित्वादिञ् । तस्य लुक् । बहुत्वे तु यौधिष्ठिरिः ।

Padamanjari

Up

बह्वच इञः प्राच्यभरतेषु॥ भरतापत्येषु भरतशब्दाऽभेदोपचाराद्वर्तते, यथा - रघूणामन्वयं वक्ष्येऽ इति। युधिष्ठिरार्जुनशब्दाभ्यां कुर्वाणोऽपवादो बाह्वादिलक्षण इञ्। बलाकाशब्देऽपि बाह्वादिः। भरताः प्राच्या एवेति।'प्राच्यभरतेषु' इति द्वन्द्वस्तु सामान्यविशेषवाचिनोर्गोबलीवर्दन्यायेनेति भावः॥