2-4-65 अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः च बहुषु तेन एव अस्त्रियाम् गोत्रे
अत्र्यादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग् भवति। अत्रिशब्दाद् <<इतश्चानिञः>> ४.१.१२२ इति ढक्। इतरेभ्य ऋष्यण् ४.१.११४। अत्रयः। भृगवः। कुत्साः। वसिष्ठाः। गोतमाः। अङ्गिरसः। बहुष्वित्येव — आत्रेयः, भार्गवः। तेनैवेत्येव — प्रियात्रेयाः। प्रियभार्गवाः। अस्त्रियामिति किम्? आत्रेय्यः स्त्रियः॥
एभ्यो गोत्रप्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे । न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः ॥
<<अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च>> - अत्रिभृगु । पूर्वसूत्राद्गोत्र इति, तत्र यदनुवृत्तं तच्च सर्वमिहानुवर्तते । तदाह — एभ्यो गोत्रेति । अत्रेः, भृगोः, कुत्सस्य, वसिष्ठस्य, गोतमस्य, अङ्गरसश्च अपत्यानि पुमांस इति विग्रहाः । तत्र अत्रेः 'इतश्चाऽनिञः' इति ढको ।ञनेन लुक् । इतरेभ्यस्तु ऋष्यण इति बोध्यम् । लुकि आदिवृद्धेर्निवृत्तिः ।