यञञोश्च

2-4-64 यञञोः च बहुषु तेन एव अस्त्रियाम् गोत्रे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

बहुषु तेनैवास्त्रियां गोत्र इति चानुवर्तते। यञोऽञश्च गोत्रप्रत्ययस्य बहुषु वर्तमानस्यास्त्रीलिङ्गस्य लुग् भवति। <<गर्गादिभ्यो यञ्>>४.१.१०५ — गर्गाः। वत्साः। अञः खल्वपि — <<अनृष्यानन्तर्ये बिदादिभ्योऽञ्>> ४.१.१०४ — बिदाः। उर्वाः। बहुष्वित्येव — गार्ग्यः। बैदः। तेनैवेत्येव — प्रियगार्ग्याः। प्रियबैदाः। अस्त्रियामित्येव — गार्ग्यः स्त्रियः। बैद्यः स्त्रियः। गोत्र इत्येव — <<द्वीपादनुसमुद्रं यञ्>>४.३.१० — द्वैप्याः। <<उत्सादिभ्योऽञ्>> ४.१.८६ — औत्साश्छात्राः॥ यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानम्॥ गार्ग्यस्य कुलम्, गार्ग्यकुलम्, गर्गकुलं वा। गार्ग्ययोः कुलम्, गार्ग्यकुलम्, गर्गकुलं वा। एवं बैदस्य कुलम्, बैदकुलम्, बिदकुलं वा। बैदयोः कुलम्, बैदकुलम्, बिदकुलं वा। यञादीनामिति किम्? आङ्गकुलम्। एकद्वयोरिति किम्? गर्गाणां कुलम्, गर्गकुलम्। तत्पुरुष इति किम्? गार्ग्यस्य समीपमुपगार्ग्यम्। षष्ठ्या इति किम्? परमगार्ग्यः॥

Siddhanta Kaumudi

Up

गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । गर्गाः । वत्साः बिदाः । ऊर्वाः । तत्कृते इति किम् ? प्रियगार्ग्याः । स्त्रियां तु गार्ग्यः स्त्रियः । गोत्रे किम् ? द्वैप्याः । औत्साः । प्रवराध्यायप्रसिद्धमिह गोत्रम् । तेनेह न । पौत्राः । दौहित्राः ॥

Laghu Siddhanta Kaumudi

Up

गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम्। गर्गाः। वत्साः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<यञञोश्च>> - यञञोश्च । द्वितीयचतुर्थपादे इदं सूत्रं न त्विदं चातुर्थिकमपत्याधिकारस्थम् । तत्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् ।तद्राजस्य बहुषु तेनैवाऽस्त्रिया॑मिति सूत्रं तद्राजस्येतिवर्जमनुवर्तते ।ण्यक्षत्रिये त्यतोलु॑गिति,यस्कादिभ्यो गोत्रे॑ इत्यतो 'गोत्रे' इति च । तदाह — गोत्रे यदिति । एतयोरिति । यञञोरित्यर्थः । प्रत्ययाऽदर्शनस्यैव लुक्त्वादिति भावः । तत्कृते इति । यञञ्प्रत्ययार्थगतबहुत्वे इति यावत् । गर्गाइति । गर्गस्यापत्यानीत्यादिविग्रहः । प्रियागाग्र्या इति । प्रियो गाग्र्यो येषामिति विग्रहः । अत्र यञर्थगतबहुत्वाऽभावान्न लुगिति भावः । द्वैप्या इति । द्वीपे भवा इत्यर्थः ।द्वीपादनुसमुद्र॑मिति यञ् । औत्सा इति । उत्से भवा इत्यर्थः ।उत्सादिभ्योऽञ् । इहोभयत्रापि यञञोर्गौत्रवाचित्वाऽभावान्न लुगिति भावः । ननु पौत्रा दौहित्रा इत्यत्राप्यनृषिविदादिलक्षणाऽञो लुक्स्यात् । नच तस्यानन्तरापत्यवाचित्वाऽभावान्न लुगिति भावः । ननु पौत्रा दौहित्रा इत्यत्राप्यनृषिविदादिलक्षणाऽञो लुक्स्यात् । नच तस्यानन्तरापत्यवाचित्वाद्रोत्रवाचित्वाऽभावान्न लुगिति वाच्यं,यूनि लु॑गिति सूत्रभाष्ये अपत्य#आधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते इति सिद्धान्तित्वादित्यत आह — प्रवरेति ।कश्यपोऽत्रिर्भरद्वाजो विआआमित्रोऽथ गौतमः । जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः ।तेषां यदपत्यं तद्गोत्रमित्याचक्षते॑ इति बोधायनीयादिप्रवराध्यायप्रसिद्धा भार्गवादय एवैह गोत्रत्वेन विवक्षिता इत्यर्थः । कैयटेनलौकिकस्य गोत्रस्य ग्रहण॑मिति भाष्यमुपादाय तथैव व्याख्यातत्वादिति भावः । एवंच पौत्रा दौहित्रा इत्यादौ पौत्रदौहित्रयोस्तथाविधगोत्रवाचित्वाऽभावान्न लुगिति स्थितम् । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः ।

Padamanjari

Up

यञञोश्च॥ गोत्रप्रत्ययस्य बहुषु वर्तमानस्येति। अत्रापि व्यधिकरणे षष्ठयौ। बहुषु वर्तमानस्य समुदायस्य सम्बन्धी यो गोत्रप्रत्ययो यत्र अञ् च तस्येत्यर्थः। तेन द्वन्द्वेऽपि भवति - गर्गवत्सवाजाः, बिदौर्वभरद्वाजा इति। गार्ग्यः स्त्रिय इति।'यञश्च' इति ङीप्,'हलस्तद्धितस्य' । बैद्य इति।'शाङ्गर्रवाद्यञो ङीन्' । एकद्वयोरिति। एकत्वद्वित्वयोरित्यर्थः।'संख्याया अल्पीयस्याः' इत्येकशब्दस्य पूर्वनिपातः।'द्व्येकयोः' इति निर्देशाद् द्विशब्दस्यापि भवति। गार्ग्ययोः कुलं गार्ग्यकुलमिति। प्रकरणादिवशाद् द्वित्वावगतौ द्विवचनान्तस्यापि विरुद्धः समासः॥