2-4-63 यस्कादिभ्यः गोत्रे बहुषु तेन एव अस्त्रियाम्
बहुषु तेनैवास्त्रियामिति सर्वमनुवर्तते। यस्क इत्येवमादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु वर्तमानस्यास्त्रीलिङ्गस्य लुग् भवति, तेनैव चेद् गोत्रप्रत्ययेन कृतं बहुत्वं भवति। प्रत्ययविधेश्चान्यत्र लौकिकस्य गोत्रस्य ग्रहणमित्यनन्तरापत्येऽपि लुग् भवत्येव। यस्काः। लभ्याः। बहुष्वित्येव — यास्कः। तेनैवेत्येव — प्रिययास्काः। अस्त्रियामित्येव — यास्क्यः स्त्रियः। गोत्र इति किम्? यास्काश्छात्राः॥ यस्क। लभ्य। दुह्य। अयःस्थूण। तृणकर्ण। एते पञ्च शिवादिषु पठ्यन्ते। ततः परेभ्यः षड्भ्य इञ्। सदामत्त। कम्बलभार। बहिर्योग। कर्णाटक। पिण्डीजङ्घ। बकसक्थ। ततः परेभ्यश्चतुर्भ्यो <<गृष्ट्यादिभ्यश्च>>४.१.१३६ इति ढञ्। बस्ति। कुद्रि। अजबस्ति। मित्रयु। ततः परेभ्यो द्वादशभ्य इञ्। रक्षोमुख। जङ्घारथ। उत्कास। कटुकमन्थक। पुष्करसत्। विषपुट। उपरिमेखल। क्रोष्टुमान। क्रोष्टुपाद। क्रोष्टुमाय। शीर्षमाय। पुष्करसच्छब्दाद् बाह्वादिपाठादिञ्। खरपशब्दो नडादिषु पठ्यते। ततःफक्। पदक। वर्मक। एताभ्याम् <<अत इञ्>> ४.१.९५। भलन्दनशब्दात् <<शिवादिभ्योऽण्>> ४.१.११२। भडिल। भण्डिल। भडित। भण्डित। एतेभ्यश्चतुर्भ्यः<<अश्वादिभ्यः फञ्>>४.१.११०॥
एभ्योऽपत्यप्रत्ययस्य लुक् स्यात्तत्कृते बहुत्वे । न तु स्त्रियाम् । मित्रयवः ॥
<<यस्कादिभ्यो गोत्रे>> - यस्कादिभ्यो । नेदं सूत्रमपत्याधिकारस्थं, किंतु द्वैतीयीकम् । अतो गोत्रशब्देन प्रवराध्यायप्रसिद्धमेव गोत्रमिह विवक्षितम्,अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते॑ इति 'यूनि लुक्' इति स्त्रीपुसाभ्या॑मित्यादिसूत्रभाष्ये सिद्धान्तितत्वात् ।ण्यक्षत्रियार्षे॑त्यतो सुगित्यनुवर्तते ।तद्राजस्य बहुषु तेनैवास्त्रिया॑मिति सूत्रं तद्राजवर्जमनुवर्तते । तदाह — एभ्योऽपत्यप्रत्ययस्येति । मित्रयव इति । मित्रयोरपत्यानि पुमांस इत्यर्थः । गृष्टआदिढको लुकि आदिवृद्धिनिवृत्तिः ।
यस्कादिभ्यो चगोत्रे॥ प्रत्ययविधेश्चान्यत्रेति। गोत्रे यत्र प्रत्ययो विधीयते'गोत्रे कुञ्जादिभ्यश्च्फञ्' इत्यतोऽन्यत्रेत्यर्थः। तत्र तावदपत्याधिकारे गोत्रग्रहणादेव पारिभाषिकस्य ग्रहणम्, अन्यत्र लौकिकस्येत्यत्र ज्ञापकं वक्ष्यामः। पुष्करसच्छब्दस्येति। किमर्थ पुनरयमत्र पठ।ल्ते, यावता'बह्वच इञः प्राच्यभरतेषु' इत्येव सिद्धं पुष्करसदः प्राच्यत्वात्, तथा चेतः प्राचामिति प्राप्तस्य लुकः प्रतिषेधाय तौल्वल्यादिषु पठितः? एवं तर्हि गोपनादिषु केचितौल्वल्यादयश्चेति पठन्ति, तौल्वल्यादिषु प्रकृतिभागा अपि गोपवनादिषु द्रष्टव्या इत्यर्थः। तेन'न गोपवनादिभ्यः' इति निषेधे प्राप्तेऽत्रास्य पाठः। अयमेव च पाठो ज्ञापयति - गोपवनादिषु तौल्वल्यादयोऽपि पठिता इति॥