न तौल्वलिभ्यः

2-4-61 न तौल्वलिभ्यः

Kashika

Up

index: 2.4.61 sutra: न तौल्वलिभ्यः


अनन्तरेण प्राप्तो लुक् प्रतिषिध्यते। तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य न लुग् भवति। तौल्वलिः पिता। तौल्वलायनः पुत्रः। तौल्वलि। धारणि। रावणि। पारणि। दैलीपि। दैवलि। दैवमति। दैवयज्ञि। प्रावाहणि। मान्धातकि। आनुहारति। श्वाफल्कि। आनुमति। आहिंसि। आसुरि। आयुधि। नैमिषि। आसिबन्धकि। बैकि। आन्तरहाति। पौष्करसादि। वैरकि। वैलकि। वैहति। वैकर्णि। कारेणुपालि। कामालि।

Siddhanta Kaumudi

Up

index: 2.4.61 sutra: न तौल्वलिभ्यः


तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुक् न स्यात् । पूर्वेण प्राप्तः । तुल्वलः, तत इञि फक्, तौल्वलिः पिता । तौल्वलायनः पुत्रः ॥

Balamanorama

Up

index: 2.4.61 sutra: न तौल्वलिभ्यः


न तौल्वलिभ्यः - न तौल्वलिभ्यः । बहुवचनात्तौल्वल्यादीनां ग्रहणमित्याह — तौल्वल्यादिभ्यः परस्येति । पूर्वेणेति ।इञः प्राचा॑मित्यनेन प्राप्तो लुगनेन प्रतिषिध्यत इत्यर्थः । तुल्वल इति । तुल्वलो नाम प्राच्यः कश्चित् । तस्य गोत्रापत्यं तौल्वलिः ।अत इञ् । तस्यापत्यं युवा तौल्वलायनः ।यञिञोश्चे॑ति फक् ।

Padamanjari

Up

index: 2.4.61 sutra: न तौल्वलिभ्यः


न तौल्वलिभ्यः॥'तुल उपमाने' , औणादिको वलच्। तुल्वलः। धारयतिपारयतिभ्यां नन्द्यादिल्युः - धारणः, पारणः। देवा मित्रमस्येति देवमित्रः। देवेभ्यो यज्ञोऽस्य देवयज्ञः।'पुष पुष्टौ' , क्यप्, पुष्यः। विलक्षणौ कर्णावस्य विकर्णः। करेणुं पालयति करेणुपालः। ठसु क्षेपणेऽ, कुरच् - असुरः।'हृञ्हरणे' , अनुपूर्वाल्लटः शत्रादेशः, पुष्करे सीदतीति पुष्करसत्, बाह्वादी अनुशतिकादी च। परिशिष्टाः पारायणे द्रष्टव्याः॥