2-4-60 इञः प्राचाम्
index: 2.4.60 sutra: इञः प्राचाम्
गोत्रे य इञ् तदन्ताद् युवप्रत्ययस्य लुग् भवति। गोत्रविशेषणं प्राग्ग्रहनम्, न विकल्पार्थम्। पान्नागारेरपत्यं युवा। यञिञोश्च 4.1.101 इति फक्, तस्य लुक्। पान्नागारिः पिता। पान्न्नगारिः पुत्रः। मन्थरैषणिः पिता। मान्थरैषणिः पुत्रः। प्राचाम् इति किम्? दाक्षिः पिता। दाक्षायणः पुत्रः।
index: 2.4.60 sutra: इञः प्राचाम्
गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक्स्यात्, तच्चेद् गोत्रं प्राचां भवति । पन्नागारस्य अपत्यम् । अत इञ् <{SK1095}>, ञञिञोश्च <{SK1103}> इति फक् । तस्य लुक् । पान्नागारिः पिता पुत्रश्च । प्राचाम् किम् । दाक्षिः पिता । दाक्षायणः पुत्रः ॥
index: 2.4.60 sutra: इञः प्राचाम्
इञः प्राचाम् - इञः प्राचाम् । 'इञः' इति पञ्चमी । प्रत्ययत्वात्तदन्तग्रहणम् ।ण्यक्षत्रिये॑त्यतो यूनि लुगित्यनुवर्तते । इञन्तात्परस्य युवप्रत्ययस्य लुगित्यर्थः । अर्थादिञो गोत्रार्थकत्वं लभ्यते । तदाह — गोत्रे य इञ्तदन्ताद्युवप्रत्ययस्य लुगिति । प्राचामिति गोत्रविशेषणं, न तु विकल्पार्थं, व्याख्यानात् । तदाह — तच्चेद्गोत्रं प्राचां भवतीति । प्राग्देशीयमित्यर्थः । पन्नागारस्येति । प्राग्देशे पन्नागारो नाम कश्चित्, तस्य गोत्रापत्यमित्यर्थेअत इ॑ञिति इञि पान्नागारिः । पान्नागारेरपत्यं युवेत्यर्थे पान्नागारिशब्दात्यञिञोश्चे॑ति फक् । तस्यानेन लुक् । एवंच पन्नागरस्य गोत्रापत्ये युवापत्ये च पान्नागारिरित्येव रूपमित्यर्थः । प्राचां किमिति । गोत्रविशेषणं किमर्थमित्यर्थः । दाक्षिः पिता, दाक्षायणः पुत्र इति । दक्षस्य गोत्रापत्यं दाक्षिः ।अत इञ् । तस्यापत्यं युवादाक्षायणः ।यञिञोश्चे॑ति फक् । तस्य लुङ् न भवति, दाक्षिशब्दस्य प्राग्देशीयगोत्रप्रत्ययान्तत्वाऽभावेन न युवप्रत्ययस्य फकः प्राग्देशीयगोत्रार्थंकादिञः परत्वम् ।
index: 2.4.60 sutra: इञः प्राचाम्
इञः प्राचाम्॥'प्राचामवृद्धम्' इत्यादौ प्राग्ग्रहणं विकल्पार्थम्, इह तु न तथेत्याह - गोत्रविशेषणमिति। युवप्रत्ययस्य लुग्विधानादर्थादाक्षिप्तं गोत्रमिति भावः। पन्नमु प्राप्तमगारं येन स पन्नागारः। मन्थरा उ मन्दीभूता एषणा यस्य स मन्थरैषणः॥