पैलादिभ्यश्च

2-4-59 पैलादिभ्यः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पैल इत्येवमादिभ्यश्च युवप्रत्ययस्य लुग् भवति। <<पीलाया वा>> ४.१.११८ इत्यण्। तस्माद् <<अणो द्व्यचः>> ४.१.१५६ इति फिञ्, तस्य लुक्। पैलः पिता। पैलः पुत्रः। अन्ये पैलादय इञन्तास्तेभ्य <<इञःप्राचाम्>>२.४.६०इति लुकि सिद्धेऽप्रागर्थः पाठः॥ पैल। शालङ्कि। सात्यकि। सात्यकामि। दैवि। औदमज्जि। औदव्रजि। औदमेघि। औदबुद्धि। दैवस्थानि। पैङ्गलायनि। राणायनि। रौहक्षिति। भौलिङ्गि। औद्गाहमानि। औज्जिहानि। तद्राजाच्चाणः (ग०सू० २१)। आकृतिगणोऽयम्॥

Siddhanta Kaumudi

Up

एभ्यो युवप्रत्ययस्य लुक् । पीलाया वा-<{SK1121}> इत्यण्, तस्मात् अणो द्व्यचः <{SK1180}> इति फिञ्, तस्य लुक् । पैलः पिता पुत्रश्च । (गणसूत्रम् -) तद्राजाच्चाणः । द्व्यञ्मगध-<{SK1188}>इत्यण्णन्तादाङ्गशब्दात् अणो द्व्यचः-<{SK1180}> इति फिञो लुक् । आङ्गः पिता पुत्रश्च ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पैलादिभ्यश्च>> - पैलादिभ्यश्च ।ण्यक्षत्रियार्षे॑त्यतो यूनि लुगित्यनुवर्तते । तदाह — एभ्यां युवप्रत्ययस्य लुगिति । अजादिप्रत्यये अविवक्षितेऽपि प्राप्त्यर्थमिदम् । पीलाया इति । पीलाया गोत्रापत्यमित्यर्थेस्त्रीभ्यो ढ॑गिति ढकं बाधित्वापीलाया वे॑त्यणित्यर्थः । तस्मादिति । पैलस्यापत्यं युवेत्यर्थे पैलादिभ्यश्चे॑ति लुक् 'अमो द्व्यचः' इति फिञित्यर्थः । पीलाया गोत्रापत्यस्यापत्यं । पीलाया युवापत्यमिति पर्यवस्यति । तस्येति । तस्य-युवार्थकफिञ्प्रत्ययस्य अनेन लुगित्यर्थः । पीलाया गोत्रापत्ये, युवापत्ये च पैलशब्द इत्याह — पैलः पिता पुत्रश्चेति । यूनः पिता, युवा चेत्यर्थः ।तद्राजाच्चाऽणः॑इति पैलादिगणसूत्रम् । तद्राजप्रत्ययात्परस्य युवप्रत्ययस्याऽणो लुगित्यर्थः । द्व्यञ्मगधेति । अङ्गशब्दो देशविशेषे तस्य राजा आङ्गः । तस्य गोत्रापत्यमप्याङ्गः ।द्व्यञ्मगधे॑त्यण् । तस्यापत्यं युवाप्याङ्ग एव । 'अणो द्व्यचः' इति फिञ्, तस्यानेन लुक् ।

Padamanjari

Up

पैलादिभ्यश्च॥ पीडयतेः पचाद्यचि कपिलादिदर्शनादस्य लत्वे पीला। अन्ये पैलादय इञन्ता इति। तत्र बाह्वादिषु ठुदञ्चुऽ इति पठ।ल्ते। उकार उच्चारणार्थः,क्विनि नोपधत्वं निपात्यते। औदञ्चिः। ठचःऽ इत्यकारलोपः, ठुद ईत्ऽ इतीत्वं च न भवति; लुप्तनकारस्य तत्र ग्रहणात्। भूलिङ्गशब्दः शाल्वावयवः। सात्यकिशब्दमपि केचित्पठन्ति, सोऽपि बाह्वादीञन्तः। सत्यकशब्दाद् ठृष्यन्धकऽ इत्यणा भाव्यम्। शेषा अत इञन्ताः। शालङ्किरिति। अस्मादेव निपातनाच्छलङ्कोरिञ्, शलङ्कादेशश्च। तद्राजाच्चाण इति। तद्राजसंज्ञकादणः परस्य युवप्रत्ययस्य लुग्भवति।'द्वञ्मगध' इत्यणन्तादाङ्गशब्दात् ठणो द्व्यचःऽ इति फिञो लुक्। आङ्गः पिता, आङ्गः पुत्रः। तदेवं गणवाक्यमेतदेकम्, पूर्वपतठ ताइनि त्रीणीति चत्वारि यथोतरमधिकविषयाणि॥