अध्ययनतोऽविप्रकृष्टाख्यानाम्

2-4-5 अध्ययनतः अविप्रकृष्टाख्यानाम् एकवचनम् द्वन्द्वः च

Kashika

Up

index: 2.4.5 sutra: अध्ययनतोऽविप्रकृष्टाख्यानाम्


अध्ययनेन निमित्तेन येषामविप्रकृष्टा प्रत्यासन्ना आख्या, तेषां द्वन्द्वः एकवद् भवति। पदकक्रमकम्। क्रमकवार्तिकम्। सम्पाठः पदानां क्रमस्य च प्रत्यासन्नः। अध्ययनतः इति किम्? पितापुत्रौ। अविप्रकृष्टाऽख्यानाम् इति किम्? याज्ञैकवैयाकरणौ।

Siddhanta Kaumudi

Up

index: 2.4.5 sutra: अध्ययनतोऽविप्रकृष्टाख्यानाम्


अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्व एकवत् । पदकक्रमकम् ॥

Balamanorama

Up

index: 2.4.5 sutra: अध्ययनतोऽविप्रकृष्टाख्यानाम्


अध्ययनतोऽविप्रकृष्टाख्यानाम् - तदाह — अध्ययनेन प्रत्यासन्नेति । संनिकृष्टेत्यर्थः । पदककक्रमकमिति । पदान्यधीयते पदकाः । क्रमान् अधीयते क्रमकाः ।क्रमादिभ्यो बुन् । पदकानां क्रमकाणां च समाहर इति विग्रहः । पदाध्ययनानन्तरं क्रमाध्ययनमित्यद्ययनगता प्रत्यासत्तिरध्येतर्यारोप्यत इति भावः । पदक्रममिति नोदाहृतम्,जातिरप्राणिना॑मित्येव सिद्धेः । तदध्येतृत्वे तु न जातिरिति भावः ।

Padamanjari

Up

index: 2.4.5 sutra: अध्ययनतोऽविप्रकृष्टाख्यानाम्


अध्ययनतोऽविप्रकृष्टाख्यानाम्॥ आख्यायतेऽनेनेत्याख्येति शब्दमात्रमिहाख्याशब्देनोच्यते, न रूढिशब्द एव। असंदेहार्थं विप्रकृष्टाख्यानामध्ययनत इत्यकरणादविप्रकृष्टेति पदच्छेदः। आख्यानञ्च न स्वरूपेणाविप्रकर्षः, किन्तु प्रवृत्तिनिमितद्वारेण, तच्चेहाध्ययनम्, तदाह - अध्ययनत इति। अधीतिःउअध्ययनम्, अध्ययनेनाध्ययनतः, आद्यादित्वातसिः, प्रवृत्तिनिमितभूतस्याध्ययनस्याविप्रकृष्टत्वातद्द्वारेणाविप्रकृष्टा आख्या येषां तेऽध्ययनतोऽविप्रकृष्टाख्याः। एतदेवाह - अध्ययनेन निमितेनेत्यादि। पदकक्रमकमिति। पदान्यधीते पदकः,'क्रमादिभ्यो वुन्,' एवं क्रमकः। वृत्तिःउ संहिता, तामधीते वार्तिकः, उक्थादित्वाट् ठक्, अत्र प्रवृत्तिनिमितस्याध्ययनस्याविप्रकर्षं दर्शयति - संपाठ इति। संपाठ इति। संपठनं संपाठः, अध्ययनमित्यर्थः। प्रत्यासन्न इति। पदान्यधीत्य क्रमोऽध्येतव्य इति कृत्वा। एवं क्रमकवार्तिकमित्यत्रापि नानधोत्य संहितां क्रमोऽध्येतुं शक्य इति प्रत्यासतिर्विज्ञेया॥