ण्यक्षत्रियार्षञितो यूनि लुगणिञोः

2-4-58 ण्यक्षत्रियार्षञितः यूनि लुग् अण् इञोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ण्यादयो गोत्रप्रत्ययाः। ण्यान्तात् क्षत्रियगोत्राद् आर्षाद् ञितश्च परयोरणिञोर्यूनि लुग् भवति। ण्यान्तात् तावत् — <<कुर्वादिभ्यो ण्यः>> ४.१.१५१ तस्माद् यूनि इञ्, तस्य लुक्। कौरव्यः पिता। कौरव्यः पुत्रः। ननु च कौरव्यशब्दस्तिकादिषु पठ्यते, ततः फिञा भवितव्यम्, कौरव्यायणिरिति? क्षत्रियगोत्रस्य तत्र ग्रहणं <<कुरुनादिभ्यो ण्यः>> ४.१.१७२इत्यनेन विहितस्य। इदं तु ब्राह्मणगोत्रम्। <<कुर्वादिभ्यो ण्यः>>४.१.१५१ इति ण्यः। क्षत्रिय — <<ऋष्यन्धकवृष्णिकुरुभ्यश्च>> ४.१.११४ इत्यण्। तस्माद् यूनि इञ्, तस्य लुक्। श्वाफल्कः पिता। श्वाफल्कःपुत्रः। आर्ष — <<ऋष्यण्>> ४.१.११४, तस्माद् यूनीञ्, तस्य लुक्। वासिष्ठः पिता। वासिष्ठः पुत्रः। ञित् — <<अनृष्यानन्तर्ये बिदादिभ्योऽञ्>> ४.१.१०४, तस्माद् यूनीञ्, तस्य लुक्। बैदः पिता। बैदः पुत्रः। अणः खल्वपि — <<तिकादिभ्यः फिञ्>> ४.१.१५४, तस्माद् यूनि <<प्राग् दीव्यतोऽण्>> ४.१.८३, तस्य लुक्। तैकायनिः पिता। तैकायनिः पुत्रः। एतेभ्य इति किम्? <<शिवादिभ्योऽण्>> ४.१.११२, तस्माद् यूनि <<अत इञ्>> ४.१.९५, तस्य न लुग् भवति। कौहडः पिता। कौहडिः पुत्रः। यूनीति किम्? वामरथ्यस्य छात्रा वामरथाः। <<कुर्वादिभ्यो ण्यः>> ४.१.१५१ इति ण्यः, तस्मात् <<कण्वादिभ्यो गोत्रे>> ४.२.१११ इति शैषिकोऽण्। तस्य लुग् न भवति। अणिञोरिति किम्? दाक्षेरपत्यं युवा दाक्षायणः॥ अब्राह्मणगोत्रमात्राद् युवप्रत्ययस्योपसंख्यानम्॥ बौधिः पिता। बौधिः पुत्रः। जाबालिः पिता। जाबालिः पुत्रः। औदुम्बरिः पिता। औदुम्बरिः पुत्रः। भाण्डीजङ्घिः पिता। भाण्डीजङ्घिः पुत्रः। साल्वावयवलक्षण इञ्। तस्मात् फक्, तस्य लुक्॥ पैलादिदर्शनात् सिद्धम्॥

Siddhanta Kaumudi

Up

ण्यप्रत्ययान्तात्क्षत्रियगोत्रप्र्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्ताद् ञितस्च परयोर्युवाभिधायिनोरणिञोर्लुक् स्यात् । कौरव्यः पिता । कौरव्यः पुत्रः । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । वासिष्ठः पिता । वासिष्ठः पुत्रः । तैकायनिः पिता । तैकायनिः पुत्रः । एभ्यः किम् । शिवाद्यण् । कौहङः पिता । तत इञ् । कौहङिः पुत्रः । यूनि किम् । वामरथ्यस्य छात्राः । वामरथाः । इति अणो लुक् तु न भवति । आर्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात् । पाणनिना प्रोक्तं पानिनीयम् । वृद्धाच्छः <{SK1337}> । इञश्च <{SK1333}> इत्यण् तु न । गोत्रे य इञ् तदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् । स्वरे स्त्रियां च विशेषः । पाणिनीयः । पाणिनीया ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ण्यक्षत्रियार्षञितो यूनि लुगणिञोः>> - अत्र इञो लुकमाशङ्कितुमाह — ण्यक्षित्रियार्ष । ण्यादयः सर्वे गोत्रप्रत्यया एव गृह्यन्ते,गोत्राद्यूनी॑त्युक्तेः । तदाह — गोत्रप्रत्ययान्तादित्यादि । ण्यप्रत्ययस्योदाहरति — कौरव्य इति । कुरोर्गोत्रापत्यं कौरव्यः ।कुर्वादिभ्यो ण्यः॑ । कौरव्यस्यापत्यं युवेत्यर्थेऽत इञ् । तस्यानेन लुक् । क्षत्रियप्रत्ययस्योदाहरति — आआफल्क इति । आफल्कस्य गोत्रापत्यं आआफल्कः ।ऋष्यन्धके॑त्यण् । आआफल्कस्यापत्यं युवेत्यर्थेअत इञ् । तस्याऽनेन लुक् । आर्षप्रत्ययस्योदाहरति — वासिष्ठ इति । वसिष्ठस्य गोत्रापत्यं वासिष्ठः । ऋष्यण् । वासिष्ठस्यापत्यं युवेत्यर्थे इञ् । तस्यानेन लुक् । ञित उदाहरति — तैकायनिरिति । तिकस्य गोत्रापत्यं तैकायनि । तिकादिभ्यः फिञ् । तैकायनेरपत्यं युवेत्यर्थे तस्यापत्यमित्यण् । तस्यानेन लुक् । वामरथ्यस्येति । वामरथस्य गोत्रापत्यं वामरथ्यः । 'कुर्वादिभ्यो ण्यः' वामरथ्यस्य छात्रा इत्यर्थेकण्वादिभ्यो गोत्रे॑ इति छापवादोऽण्, तस्यानेन लुङ्ग भवति, तस्य युवार्थकत्वाऽभावादिति भावः । इत्यणो लुक्तु न भवतीति ।ण्यक्षत्रिये॑ति सूत्रेण पाणिनिरित्यत्र [अणः परस्य]इणो लुङ्न भवतीत्यर्थः । कुत इत्यत आह — आर्षग्रहणेनेति । पाणिनिशब्दे पणिन्शब्दादण्प्रत्ययस्य औत्सर्गिकस्य वस्तुगत्या ऋषिवाचित्वेऽपि ऋषौ प्रतिपदोक्तत्वाऽभावान्न ततः परस्य इञो लुगिति भावः । नच पणिन्शब्दाद्गोत्रापत्येऋष्यन्धके॑त्यणेव कुतो न स्यादिति वाच्यं, यत्र औत्सर्गिकस्य अण इञादिना बाधः प्रसक्तः, तत्रैव तद्वाधनार्थभृष्यणः प्रवृत्तेः । वस्तुतस्तुवाऽन्यस्मिन्सपिण्डे॑ इति सूत्रभाष्येऽत्रिशब्दात् 'इतश्चानिञः' इति ढकि आत्रेयशब्दादिञोण्यक्षत्रियार्षे॑ति लु॑गित्युक्तत्वादिदमुपेक्ष्यम् ।ण्यक्षत्रिये॑त्यत्र तु ऋशिवाचकस्य रूञस्यैव ग्रहणम् । पणिन्शब्दः, तदपत्ये पाणिनशब्दश्च न ऋषिवाचकौ । अत औत्सर्गिकाणन्त एव पाणिनशब्द इति शब्देन्दुशेखरे प्रपञ्चितम् । पाणिनिनेति । पाणिनिना प्रोक्तमित्यर्थेतेन प्रोक्त॑मित्यणं बाधित्वा॒वृद्धाच्छः॑ इति छप्रत्यये ईयादेशे पाणिनीयशब्द इत्यर्थः । ननु पाणिनिशब्दात्तद्धिते विवक्षितेयूनिलुगितीञो लुकि सत्यपि प्रत्ययलक्षणेन इञन्तत्वमाश्रित्य छापवादोऽण्स्यादित्यत आह — इञश्चेत्यण्तु नेति । पाणिनिशब्दे इञ् युवापत्यार्थक एव, न तु गोत्रार्थकः, युवसंत्रया गोत्रसंज्ञाया बाधादिति भावः । अद्यपि अपत्याधिकारादन्यत्र न पारिभाषिकं गोत्रमित्युक्तं, तथाप्यत्र पारिभाषिकमेव गोत्रं गृह्रते इत्युपरिष्टात्इञश्चे॑ति सूत्रे वक्ष्यते । तत इति । पाणिनीयशब्दादित्यर्थः । पाणिनीयमधीते वेति वेत्यर्थे पाणिनीयशब्दादणिप्रोक्ताल्लु॑गिति तस्य लुगिति भावः । ननु असत्यपि अध्येतृवेतितृप्रत्ययस्याऽणो लुकि पाणिनीयशब्दः सिध्यत्येवेत्यत आह — स्वरे स्त्रियां च विशेष इति । अध्येतृवेदितृप्रत्ययस्याऽणो लुगभावे प्रत्ययस्वरेणान्तोदात्तत्वं स्त्रियां च ङीप्स्यात् । लुकि तु सति छादेशस्य ईयादेशस्य ईकारः । प्रत्ययस्वरेणोदात्तः टाप्च सिध्यति । तदाह — पाणिनीयः पाणिनीयेति ।

Padamanjari

Up

ण्यक्षत्रियार्षञितो यूनि लुगणिञोः॥ ण्यादयो गोत्रप्रत्यया इति।'गोत्राद्यौउन्यस्त्रियाम्' इति गोत्रप्रत्ययान्तादेव यूनि प्रत्ययविधानात्। क्षत्रियगोत्रस्यक्षत्रियादभेदोपचारात् क्षत्रियशब्देनाभिधानम्। ऋषेरपत्यमार्षम्, ठितश्चानिञःऽ इति ढकि प्राप्ते शिवादिपाठादण्। ढगपीष्यते - आर्षेयं वृणीते इति। तस्माच्छुभ्रादिष्वपि पठनीयः। एवं गोत्ररूपाभ्यां क्षत्रियार्षाभ्यां प्रत्ययस्योपलक्षणाद् ण्यादयो गोत्रप्रत्यया इत्युक्तम्। क्षत्रियादिति। क्षत्रियगोत्रप्रत्ययान्तादित्यर्थः। आर्षादिति। ऋष्यभिधायिनो गोत्रप्रत्ययान्तादित्यर्थः। प्रथमनिर्दिष्टाद् ण्यान्तादणोऽसम्भवाच्चरमनिर्द्दिष्टोऽपीञेव प्रथममुदाहृतः। क्षत्रियगोत्रस्य तत्र ग्रहणमिति। औरसशब्देन साहचर्यात्। स हि'जनपदशब्दात् क्षत्रियादञ्' इत्यञन्तत्वात्क्षत्रियशब्दः। उरसशब्दः सकारोपधो जनपदवाची, तस्माद्यौउनि प्राग्दीव्यतीयोऽणिति।'फेश्च्छ च' इति च ञच्छौ तु न भवतः, यमुन्दश्च सुयामा चेति परिगणनात्। कण्वादिभ्यो गोत्रे इति शैषिकोऽणिति। वामरथस्य कण्वादिवत्स्वरवर्जमिति कुर्वादिषु पाठादिति भावः। अब्राह्मणगोत्रमात्रादिति। अत्र भाष्ये त्रीणि वाक्यान्युपन्यस्तानि - अणिञोर्लुकि तद्राजाह्युवप्रत्ययस्योपसंख्यानमिति प्रथमम्, अस्योदाहरणम् - बौधिः पिता, बौधिः पुत्रा; औदुम्बरिः पिता, औदुम्बरिः पुत्रः, बुधोदुम्बराभ्यां शाल्ववयवालक्षण इञ्'यञिञोश्च' इति फक्, तस्य लुक्। अनणिञर्थमेतद्वचनभ्। शाल्वावययवेत्यत्रोदुम्बरास्तिलखिला इत्यादि संभवोदाहरणं न परिगणनमिति बुधशब्दादपीञ् भवति। क्षत्रियगोत्रमात्राद्यौवप्रत्ययस्योपसंख्यानमिति द्वितीयम्। मात्रशब्दो व्याप्त्यर्थः, तद्राजादिति नियमो नास्ति - क्षत्रियगोत्रमात्रादिति। तेन जाबालशब्दादत इञोऽतद्राजादपि परस्य फको लुग् भवति - जाबालिः पिता, जाबालिः पुत्रः। वृत्तिकारेणोन्यस्तं तृतीयम्। अत्रापि मात्रशब्दो व्याप्त्यर्थः। क्षत्रियादित्यापि नियमो नास्ति - अब्राह्मणगोत्रमात्रादिति, तेन वैश्यगोत्रादपि भवति। भाण्डिजङ्घकर्णखरकौ वैश्यौ, ताभ्यामत इञ् तदन्तात्फको लुक्। व्यापकत्वाच्चेदमुपन्यस्तं वृत्तिकारेण॥