2-4-57 वा यौ आर्धधातुके अजेः वी
पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। यु इति ल्युटो ग्रहणम्। यौ परभूते अजेर्वा वी इत्ययमादेशो भवति। प्रवयणो दण्डः। प्राजनो दण्डः। प्रवयणमानय। प्राजनमानय॥
अजेर्वी वा स्याद् यौ । प्रवयणम् । प्राजनम् ॥