अजेर्व्यघञपोः

2-4-56 अजेः वी अघञ् अपोः आर्धधातुके

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अजेर्धातोर्वीत्ययमादेशो भवत्यार्धधातुके परतो घञपौ वर्जयित्वा। प्रवायकः। प्रवयणीयः। अघञपोरिति किम्? समाजः। उदाजः। अपि तु — समजः। उदजः। <<समुदोरजः पशुषु>> ३.३.६९ इत्यप्। दीर्घोच्चारणं किम्? प्रवीताः॥ घञपोः प्रतिषेधे क्यप उपसंख्यानं कर्तव्यम्॥ समज्या॥ वलादावार्धधातुके विकल्प इष्यते॥ प्रवेता, प्राजिता। प्रवेतुम्, प्राजितुम्॥

Siddhanta Kaumudi

Up

अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा ।<!वलादावार्धधातुके वेष्यते !> (वार्तिकम्) ॥ विवाय । विव्यतुः । विव्युः । अत्र वकारस्य हल्परत्वात् उपधायां च <{SK2265}> इति दीर्घ प्राप्ते अचः परस्मिन्-<{SK50}> इति स्थानिवद्भावेनाच्परत्वम् । नच न पदान्त-<{SK51}> इति निषेधः ।<!स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् इत्युक्तेः !> (वार्तिकम्) ॥ थलि एकाचः <{SK2246}> इतीण्निषेधे प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अजेर्व्यघञपोः॥ प्रवयणीयः, प्रवायक इत्यादौ गुणवृद्धिविषये ह्रस्वदीर्घयोरविशेषं मन्वानः पृच्छति - दीर्घोच्चारणं किमिति। दीर्घव्याख्यानमित्यर्थः। घञपोः प्रतिषेधे क्यप उपसङ्ख्यानमिति। क्यपि यः प्रतिषेधस्तस्य क्यप्सम्बन्धी भवतीति क्यप इत्युक्तम्। यस्त्वाह - अपीत्येव क्यपि सिद्धः प्रतिषेधः, कथम्? अबिति प्रत्याहारः, अपोऽकारादारभ्या क्यपः पकाराद् इति, तस्य संवीतिरिति क्तिन्यपि प्रतिषेधः प्राप्नोति, तस्मात्संज्ञाग्रहणात्समज्येत्यत्र वीभावाभावः। न ह्यादेशेन संज्ञा गम्यते। वलादावार्घधातुके वेष्यत इति। नार्थोऽनयेष्ट।ल, नापि घञपोः प्रतिषेधेन, नापि क्यप उपसङ्ख्यानेन, नापि'वा यौ' इति सूत्रेण; एतावदस्तु -'वा लिटि' , अजेर्वीत्येव, व्यवस्थितविभाषेयम्, तेन घञपाः क्यपि नैव भवति, वलादौ यौ च विकल्पः, अन्यत्र नित्यम्॥