वा लिटि

2-4-55 वा लिटि आर्धधातुके चक्षिङः ख्याञ्

Kashika

Up

index: 2.4.55 sutra: वा लिटि


पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। लिटि परतश्चक्षिङः ख्याञादेशः वा भवति। आचख्यौ, आचख्यतुः, आचख्युः। न च भवति। आचचक्षे, आचचक्षाते, आचचक्षिरे।

Siddhanta Kaumudi

Up

index: 2.4.55 sutra: वा लिटि


अत्र भाष्ये खशादिरयमादेशः । असिद्धाकाण्डे ।<!शस्य यो वा इति स्थितम् !> (वार्तिकम्) ॥ ञित्त्वात्पदद्वयम् । चख्यौ-चख्ये-चक्शौ-चक्शे ॥चयो द्वितीया - <{SK5023}> इति तु न । चर्त्वस्यासिद्धत्वात् । चचक्षे । ख्याता-क्शाता । ख्यास्यति-ख्यास्यते । क्शास्यति-क्शास्यते । अचष्ट । चक्षीत । ख्यायात्-ख्येयात् । क्शायात्-क्शेयात् ॥

Balamanorama

Up

index: 2.4.55 sutra: वा लिटि


वा लिटि - वा लिटि । चक्षिङः ख्याञ् वा स्याल्लिटीत्यर्थः । अत्रेति ।चक्षिङः ख्या॑ञिति सूत्रभाष्ये 'ख्शादिरयमादेश' इति,पूर्वत्रासिद्ध॑मित्यधिकारेख्शाञः शस्य यो वा वक्तव्यः इति च सित्थमित्यर्थः । तेनपुंख्यान॑मित्यत्र यत्वस्याऽसिद्धत्वात् 'पुनः खय्यम्परे' इति रुत्वं नेति हल्सन्धिनिरुपणे प्रपञ्चितम् । ञित्त्यात्पदद्वयमिति । परस्मपैदमात्मनेपदं चेत्यर्थः । चख्यौ इति । ख्शादेशस्य शस्य वत्वपक्षे 'आत औ णलः' इति भावः । चख्यतुः चख्युः । भारद्वाजनियमात्थलि वेट् — चख्यिथ-चख्याथ, चख्यथुः चख्य । चख्यौ चख्यिव चख्यिमाक्रादिनियमादिट् । लिटि तङि ख्शाञादेशस्य शस्य वत्वपक्षे आह - चख्ये इति । चख्याते चख्यिरे । चख्यिषे चख्याते [चख्यिढवे] चख्यिध्वे चख्ये । चख्यिवहे । चख्यिमहे । शस्य वत्वाऽभावपक्षे त्वाह - चक्शौ चक्शे इति । खस्य चर्त्वेन क इति भावः । कृते चर्त्वे तस्य 'चयो द्वितीयाः शरि' इति खकारमाशह्क्य निराकरोति — खय इति । अथ ख्यानादेशाऽभावपक्षे आह — चचक्षे इति । चचक्षिषे चचक्षिध्वे । चचक्षिवहे । ख्यास्यतीति । चष्टाम् चक्षाताम् चक्षताम् । चक्ष्व चक्षाथाम् चड्ढ्वम् ।चक्षै चक्षावहै चक्षामहै । लडआह — अचष्टेति । अचक्षातामचक्षत ।अचष्ठ#आ#ः अचक्षाथामचड्ढ्वम् । अचक्षि अचक्ष्वहि अचक्ष्महि । विधिलिडआह — चक्षीतेति । आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे आह - ख्यायात् ख्येयादिति ।वाऽन्यस्ये॑त्येत्वविकल्पः । शस्य यत्वाऽभावपक्षे आह — क्शायात् क्शेषादिति । लुङि च्लेः सिचि प्राप्ते आह —