2-4-51 णौ च संश्चङोः आर्धधातुके इङः च गाङ् लिटि विभाषा
index: 2.4.51 sutra: णौ च सँश्चङोः
इङो गाङ् विभाषा इति वर्तते। णौ इति इङपेक्षया परसप्तमी, संश्चङोः इति च ण्यपेक्षया। णौ सन्परे चङ्परे च परतः इङो विभाषा गाङादेशो भवति। अधिजिगापयिषति। न च भवति। अध्यापिपयिषति। चङि खल्वपि अध्यजीगपत्। न च भवति। अध्यापिपत्।
index: 2.4.51 sutra: णौ च सँश्चङोः
सन्परे चङ्परे च णौ इङो गाङ्वा स्यात् । अध्यजीगपत् । अध्यापिपत् ॥
index: 2.4.51 sutra: णौ च सँश्चङोः
णौ च सँश्चङोः - णौ च संश्चङोः । विषयसप्तमीयमित्याकरे स्पष्टम् । णौ विवक्षिते इति लभ्यते ।इङश्चे॑त्यत इङ इति,गाङ् लिटी॑त्यतो गाङिति,विभाषा लुङ्लृङो॑रित्यतो विभाषेति चानुवर्तते । तदाह — सन्परे चङ्परे चेत्यादि । सन्परे चङ्परे च णौ विवक्षिते इत्यर्थः । अध्यजीगपदिति । णौ इङो गाङादेशे पुकि उपधाह्रस्वे अधि गप् इ अ त् स्थिते गप् इत्यस्य द्वित्वे हलादिशेषे अभ्यासह्रस्वे सन्वत्त्वादित्त्वे दीर्घे अभ्यासचुत्वे रूपम् । नचद्वित्वे कार्ये णावजादेशो ने॑ति द्वित्वात् प्राग्गाङादेशनिषेधः शङ्क्यः, अभ्यासोत्तरखण्डे अवर्णसत्त्व एव तन्निषेधप्रवृत्तेरुक्तत्वात् । द्वित्वे कार्ये गाङादेशस्य निषेधे सति गाङः पूर्वम्अजादेर्द्वितीयस्ये॑ति णिच एव द्वित्व सति प्रक्रियायां परिनिष्ठिते वा धातोरुत्तरखण्डेऽवर्णाऽभावादिति रूपमिति भावः । अध्यापिपदिति । गाङभावे 'क्रीङ्जीनां णौ' इत्यात्त्वे पुकि अधि आ प् इ अ त् इति स्थितेपी॑त्यस्य द्वित्वे रूपमिति भावः । सिध्येतरपारलौकिके । 'आदेच उपदेशे' इत्यस्मादादेचेति,क्रीङ्जीनामित्यस्माण्णाविति चानुवर्तते । तदाह — ऐहलौकिके इत्यादि । अन्नमिति । तन्निष्पादनं तृत्प्यर्थत्वादैहलौकिकमिति भावः । तत्त्वमिति । आत्मस्वरूपमित्यर्थः । सेधयति तापसं तप इति । तत्त्वं निश्चाययतीत्यर्थः । आत्मतत्त्वनिश्चय आमुष्मिकफलक इति भावः ।
index: 2.4.51 sutra: णौ च सँश्चङोः
णौ च संश्चेङे॥ अध्यापिपयिषतीति।'क्रीङ्जीनां णौ' इत्यात्वम्। अध्यजीगपदिति। लुङ् चिङ्'णिउ चङ्युपधाया ह्रस्वः' 'सन्वल्लघुनि' ,'दीर्घो लघोः' ॥