अध्वर्युक्रतुरनपुंसकम्

2-4-4 अध्वर्युक्रतुः अनपुंसकम् एकवचनम् द्वन्द्वः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अध्वर्युवेदे यस्य क्रतोर्विधानं सोऽध्वर्युक्रतुः। अध्वर्युक्रतुवाचिनां शब्दानामनपुंसकलिङ्गानां द्वन्द्व एकवद् भवति। अध्वर्युक्रतुरनपुंसकं द्वन्द्व इति गौणो निर्देशः। अर्काश्वमेधम्। सायाह्नातिरात्रम्। अध्वर्युक्रतुरिति किम्? इषुवज्रौ। उद्भिद्बलभिदौ। अनपुंसकमिति किम्? राजसूयवाजपेये। इह कस्माद् न भवति — दर्शपौर्णमासौ? क्रतुशब्दः सोमयागेषु रूढः॥

Siddhanta Kaumudi

Up

यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । अध्वर्युक्रतुः किम् । इषुवज्रौ सामवेदे विहितौ । अनपुंसकं किम् । राजसूयवाजपेये । अर्धर्चादी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अध्वर्युक्रतुरनपुंसकम्।>> - अध्वर्युक्रतुः । अध्वर्युशब्दोऽत्राध्वर्युकर्मविधायकजुर्वेदपरः । तदाह — यजुर्वेद इति । अर्काआमेधमिति । अर्को — महाक्रतुः । अआमेधो नाम प्रसिद्धः । उभौ यजुर्वेदविहितक्रतू । अर्कस्य च अआमेधस्य च समाहार इति विग्रहः । इषुवज्राविति । क्रतुविशेषावेतौ न यजुर्वेदविहिताविति भावः । तर्हि कस्मिन्वेदे विहितावित्यत आह — सामेति । राजसूयवाजपेये इति । एतयोर्यजुर्वेदविहितत्वेऽपि नपुंसकत्वान्नैकवत्त्वमिति भावः । राजसूयवाजपेययोः पुंलिङ्गतया प्रसिद्धेराह — अर्धर्चादी इति । अध्ययनतः ।अविप्रकृष्टाख्याना॑मिति च्छेदः । 'अध्ययनत' इति तृतीयार्थे तसिः ।

Padamanjari

Up

अध्वर्युक्रतुरनपुंसकम्॥ अध्वर्युशब्द ऋत्विग्विशेषे प्रसिद्धः, न च तेन क्रतोर्विशेषणमुपपद्यते, न हि सोऽस्ति क्रतुर्यत्राध्वर्योरनन्वयः, नापि सोऽस्ति यत्राध्वर्योरेवान्वय इति मुख्यार्थासम्भवादौपचारिकग्रहणमित्याह - अध्वर्युवेद इति। यजुर्वेद इत्यर्थः। तत्र ह्याध्वर्यवं विधीयते। कर्मस्वरूपस्येतिकर्तव्यतायाः। फलस्य चोपदेशःऊउविधानम्। अध्वर्युक्रतुवाचिनां शब्दानामनपुंसकलिङ्गानामिति। कथं तर्हि सूत्रे सामानाधिकरण्यमित्याह - अध्वर्युक्रतुरिति। ताद्दशावयवत्वाद् द्वन्द्व एव तथोक्त इत्यर्थः। यदि पुनरनपुंसकमित्यनेन मुख्यया वृत्या द्वन्द्व एवोच्येत तदा'स नपुंसकम्' इत्यस्यायमपवादो विज्ञायेत। न वाऽबाधेनोपपतौ सत्यां बाधो न्याय्यः। अर्कश्चाश्वमेधश्च अर्काश्वमेधम्। सायाह्नश्चातिरात्रश्च सायाह्नातिरात्रम्। इषुवज्राविति। सामवेदे एषां विधानम्। राजसूयवाजपेयशब्दावर्द्धर्चादिषु पठितौ, ततस्तौ नपुंसकलिङ्गौ प्रत्युदाहरणम्॥