2-4-48 इङः च आर्धधातुके गमिः सनि
इङश्च सनि परतो गमिरादेशो भवति। अधिजिगांसते, अधिजिगांसेते, अधिजिगांसन्ते॥
इङो गमिः स्यात्सनि । अधिजिगांसते ॥
<<इङश्च>> - इङश्च । गमिः स्यात्सनीति ।णौ गमि॑रित्यतः,सनि चे॑त्यतश्च तदनुवृत्तेरिति भावः । इङो ङित्त्वात् 'पूर्वक्त्सनः' इति तङ् । परस्मैपदेष्वित्युक्तेर्नेट् ।अज्झने॑ति दीर्घ इति भावः ।