2-4-47 सनि च आर्धधातुके इणः गमिः गमिः अबोधने
index: 2.4.47 sutra: सनि च
सनि परतः इणोऽबोधनार्थस्य गमिरादेशो भवति। जिगमिषति, जिगमिषतः, जिगमिषन्ति। अबोधने इत्येव, अर्थान् प्रतीषिषति। इण्वदिक इत्येव, अधिजिगमिषति। योगविभाग उत्तरार्थः। इङश्च 2.4.48 इति सन्येव यथा स्यात्।
index: 2.4.47 sutra: सनि च
इणो गमिः स्यात्सनि ने तु बोधने । जिगमिषति । बोधने प्रतीषिषति ॥<!इण्वदिकः !> (वार्तिकम्) ॥ अधिजिगमिषति । कर्मणि तङ् । परस्मैपदेषु इत्युक्तेर्नेट् । झलादौ सनि इति दीर्घः । जिगांस्यते । अधिजिगांस्यते अजादेशस्येत्युक्तेर्गच्छतेर्न दीर्घः । जिगंस्यते । संजिगंसते ॥
index: 2.4.47 sutra: सनि च
सनि च - सनि च ।इणो गा लुङी॑त्यत इण इति, 'णौ गमिरबोधने' इत्यतो 'गमिरबोधने' इति चानुवर्तते । तदाह — इणो गमिरित्यादि । जिगमिषतीति ।गमे॑रिति इट् । अत्रअज्झनगमा॑मिति दीर्घो स्थितेअजादेर्द्वितीयस्ये॑ति सनो द्वित्वे अभ्यासेत्त्वम् । प्रतिना सवर्णदीर्घे सकारद्वयस्यापि षत्वमिति भावः । 'इक स्मरणे' इत्यस्याह — इण्वदिक इति । अनेन वार्तिकेन इक्धातुरिण्वद्भवतीत्यर्थः । ततस्चसनि चे॑ति गमिरादेश इति भावः । कर्मणि तङिति । इण्धातोरिग्धातोश्च सन्नन्तात्कर्मणि लटस्तङित्र्थः ।भावकर्मणो॑रित्यनेनेति भावः । परस्मैपदेष्विति ।गमेरिट्परस्मैपदेषु॑ इत्युक्तेस्तङि नेडित्यर्थः । झलादाविति ।अज्झने॑ति झलादौ सनि वहितो दीर्घ इत्यर्थः । जिगांस्यते इति । गन्तुमिष्यते इत्यर्थः । इणो रूपम् । अधिजिगांस्यते इति । स्मर्तुमिष्यत इत्यर्थः । इको रूपम् । जिगंस्यते इति । गम्लृधातोः सन्नन्तात्कर्मणि तङि रूपम् । गमेरजादेशत्वाऽभावान्न दीर्घः ।