णौ गमिरबोधने

2-4-46 णौ गमिः अबोधने आर्धधातुके इणः

Kashika

Up

index: 2.4.46 sutra: णौ गमिरबोधने


णौ परतः इणोऽबोधनार्थस्य गमिरादेशो भवति। इकार उच्चारणार्थः। गमयति, गमयतः, गमयन्ति। अबोधने इति किम्? प्रत्याययति। इण्वदिक इत्येव, अधिगमयति।

Siddhanta Kaumudi

Up

index: 2.4.46 sutra: णौ गमिरबोधने


इणो गमिः स्याण्णौ । गमयति । बोधने तु प्रत्याययति ॥<!इण्वदिकः !> (वार्तिकम्) ॥ अधिगमयति ।हनस्तोऽचिण्णलोः <{SK2574}> । हो हन्तेः - <{SK358}> इति कुत्वम् । घातयति । ईर्ष्ययति ।<!ईर्ष्यतेस्तृतीयस्येति वक्तव्यम् !> (वार्तिकम्) ॥ तृतीयव्यञ्जनस्य तृतीयैकाचेति वार्थः । आद्ये षकारस्य द्वित्वं वारयितुमिदम् । द्वितीयेतु अजादेर्द्वितीयस्य <{SK2176}> इत्यस्यापवादतया सन्नन्ते प्रवर्तते । ऐर्ष्यियत् । ऐर्षिष्यत् । द्वितीयव्याख्यायां णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते । हलादेः शेषात् । द्वित्वं तु द्वितीयस्यैव । तृतीयाभावेन प्रकृतवार्तिकाप्रवृत्तेः । निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः । तेन प्रार्थयन्ति शयनोत्थितं प्रिया इत्यादि सिद्धम् । एवं सकर्मकेषु सर्वेषूह्यम् । इति तिङन्तणिच्प्रकरणम् ।

Balamanorama

Up

index: 2.4.46 sutra: णौ गमिरबोधने


णौ गमिरबोधने - णौ गमिरबोधने ।इणो गा लुङी॑त्यत इण इत्यनुवर्तते । तदाह — इणो गमिरिति । मकारादिकार उच्चारणार्थः । गमयतीति । प्रापयतीत्यर्थः । प्रत्याययतीति । बोधयतीत्यर्थः । लुङि- प्रत्यायियत् । इणो णिचिइणो य॑णिति यणं बाधित्वा परत्वाद्वृद्धावायादेशो आय् इ अ त् इति स्थितेयी॑त्यस्य द्वित्वम् । न च द्वित्वे कार्ये णावजादेशस्य निषिद्धत्वाद्वृद्धेर्निषेधः शङ्क्यः, 'अजादेर्द्वितीयस्य' इति णिचो द्वित्वे उत्तरखण्डे अवर्णाऽभावात् । 'इक स्मरणे' इत्यस्य इण्वत्त्वमुक्तं स्मारयति — इण्वदिक इति.अधिगमयतीति । स्मारयतीत्यर्थः । हन्तेर्ञिति णिति च तकारादेशमुक्तं णौ स्मारयति — हनस्तोऽतचिण्णलोरिति । कुत्वमिति ।हस्ये॑ति शेषः । उपधावृदिंध मत्वाह — घातयतीति । लुङि अजीघतत् । ईष्र्ययतीति । ईष्र्यतेर्णौ रूपम् । वक्तव्यमिति ।द्वित्व॑मिति शेषः । इति वाऽर्थ इति । 'न न्द्राः' इति सूत्रभाष्ये स्पष्टमिदम् । आद्ये इति ।तृतीयस्य व्यञ्जनस्ये॑ति पक्षे इत्यर्थः । षकारस्येति । अन्यथा इर्ष्य् इ अ त् इति स्थिते 'न न्द्राः' इति रेफं वर्जयित्वा षकारसहितस्य 'ष्यि' इत्यस्य द्वित्वं स्यात् । ततश्च उत्तरखण्डे णिलोपे ऐर्षिष्यदिति स्यात् । ऐर्ष्य्यदितीष्टं न स्यात् । अतस्तृतीयव्यञ्जनस्येत्युक्तम् । एवं च यकारद्वित्वे णिलोपे संयुक्तद्वियकारमिष्टं सिध्यतीत्यर्थः । द्वितीये इति ।तृतीयैकाच॑इति व्याख्याने इत्यर्थः । सन्नन्ते प्रवर्तते इति ।उक्तवार्तिक॑मिति शेषः । सनि इटि ईर्ष्य् इस इति स्थिते ईर्ष्य् इति प्रथमैकाच्, 'ष्यिस्' इति द्वितीयैकाच् स इति तृतीयैकाजिति स्थितिः । तत्र तृतीयैकाचः संभवात्तस्य द्वित्वविधिः । अन्यथाअजादेर्द्वितीयस्ये॑ति स्यादिति भाव) । ऐर्ष्य्यदिति । यकारमात्रस्य द्वत्वे णिलोपे संयुक्ताद्वियकारकं रूपम्ऽथ द्वितीयव्याख्यायां रूपमाह — ऐर्षिष्यदिति । तदुपपादयति — द्वितीयव्याख्यायामिति । ण्यन्ताच्चङि ईर्ष्य् इ अ त् इति स्थिते 'न न्द्राः' इति निषेधाद्रेफं वर्जयित्वाअजादेर्द्वितीयस्ये॑ति 'ष्यि' इत्यस्य द्वित्वं न तु यकारमात्रस्य, प्रथमव्याख्याने एव तृतीयव्यञ्जनस्येत्युक्तेः । तत्र 'ष्यि' इत्यस्य द्वित्वे कृतेऽपि अभ्यासे षकारएव हल् इकारशिरस्कः श्रूयते, न तु यकारोऽपीत्यर्थः । कुत इत्यत आह — हलादिशेषादिति । नतु तृतीयस्यैकाच द्वितीयव्याख्यायामिह द्वितीयस्यैकाचः कथं द्वित्वमित्यत आह — द्वित्वं तु द्वितीयस्यैवेति । 'एकाच' इति शेषः । कुत इत्यत आह — तृतीयाभावेनेति । ईर्ष्य् इ अ त् इत्यत्र ईर्ष्य् इति प्रथमैकाच्, र्ष्यि इति द्वितीयैकाच् , न तु चङि परे तृतीयैकाजस्ति । अतोऽत्र 'तृतीयैकाच' इति वार्तिकं न प्रवर्तते । तस्माद्द्वितीयस्यैव एकाचो द्वित्वमित्यर्थः । एवं च 'तृतीयस्यैकाच' इति वार्तिकं सन्नन्त एव प्रवर्तते । ईष्र्यतेरामः सत्त्वेन ततः परस्यलिटोऽभावादिति बोध्यम् । ननुप्रार्थयन्ति शयनोत्थितं प्रियाः॑ इति माघकाव्ये प्रार्थयन्तीति न चौरादिकस्वार्थिकणिजन्तं, तस्याऽऽगर्वीयतया आत्मनेपदप्रसङ्गात् । नापिहेतुमण्ण्यन्तं ,स्वाभीष्टं याचते इत्यर्थे तदसंभवात् । नहि प्रयोजकव्यापाराऽभावे तत्प्रवृत्तिरस्तीत्यत आह — निवृत्तेति । निवृत्तं प्रेषणं यस्मात् स निवृत्तप्रेषमः । संप्रति अविवक्षितप्रेषण इत्यर्थः । त्समाद्धातोर्भूतपूर्वगत्या प्रेषणमादाय हेतुमण्णौ कृते शुद्धेन णिज्विहीनेन धातुना तुल्योऽर्थः प्रतीयते इत्यर्थः । तदुक्तं — ॒निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते॑इति । इदं च 'णेरणौ' इति सूत्रे भाष्ये स्पष्टम् ॥ इति बालमनोरमायाम् हेतुमण्णिच्प्रक्रिया॥अथ पाञ्चमिकास्तत्र छयद्विधिः । — — — — — — — — — — —