इणो गा लुङि

2-4-45 इणः गा लुङि आर्धधातुके

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इणो गा इत्ययमादेशो भवति लुङि परतः। अगात्, अगाताम्, अगुः। लुङीति वर्तमाने पुनर्लुङ्ग्रहणम् <<आत्मनेपदेष्वन्यतरस्याम्>> २.४.४४ इत्येतद् मा भूत्। इह त्वविशेषेण नित्यं च भवति। अगात्। अगायि भवता॥ इण्वदिक इति वक्तव्यम्॥ अध्यगात्, अध्यगाताम्, अध्यगुः॥

Siddhanta Kaumudi

Up

गातिस्था <{SK2223}> इति सिचो लुक् । अगात् । अगाताम् । अगुः ।{$ {!1046 इङ्!} अध्ययने$} । नित्यमधिपूर्वः । अधीते । अधीयाते । अधीयते ॥

Laghu Siddhanta Kaumudi

Up

गातिस्थेति सिचो लुक्। अगात्। ऐष्यत्॥ {$ {! 19 शीङ् !} स्वप्ने $} (धातुपाठे <{02.0026}>) ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इणो गा लुङि>> - इणो गा । इण्धातोर्गा इत्यादेश स्याल्लुङीति सूत्रार्थः स्पष्टः । अगा स् त् इति स्थिते आह — गातिस्थेतीति । लृङि ऐष्यते । इङ् अध्ययने इति । अधिरुपरिभावे ।उपरिभावश्च पठने नियमपूर्वकत्व॑मिति भूवादिसूत्रे भाष्ये स्पष्टम् । नित्यमधिपूर्व इति । धातुपाठे वचनमिदम् । अधीते इत्यत्र धातुरुपसर्ग न व्यभिचरतीति भूवादिसूत्रे भाष्ये । अधीते इति ।सार्वधातुकमपि॑दिति ङित्त्वाद्गुणनिषेध सवर्णदीर्घः । अजादौ तु इयङ् ।तदाह — अधीयाते अधीयते इति । अधीषे अधीयाथे अधीध्वे । अधीये अधीवहे अधीमहे ।

Padamanjari

Up

इणो गा लुङ्॥ इगुरिति।'गातिस्था' इति सिचो लुक्, ठातःऽ इति झेर्जुस्, ठुस्यपदान्तात्ऽ। इण्वदिक इति वक्तव्यमिति। यद्यस्यैवायं प्रकरणस्य शेषः स्यात् ठिणिकोर्गा लुङ् - ईति सूत्रन्यासः कर्तव्यःऽ इत्यवक्ष्यत; यतस्तु खलु पृथगिण्वदिक इत्याह, तेन मन्यामहे - सर्वस्य शास्त्रस्य शेषोऽयमिति। तेन ठिणो यण्ऽ ठेतिस्तु शासुऽ इत्याद्यपि भवति - अधियन्ति, अधीत्येति॥