2-4-42 हनः वध लिङि आर्धधातुके
हन्तेर्धातोर्वध इत्ययमादेशो भवति लिङि परत आर्धधातुके। वध्यात्, वध्यास्ताम्, वध्यासुः। अकारान्तश्चायमादेशः। तत्राकारस्य लोपो भवति। तस्य स्थानिवद्भावादवधीदिति हलन्तलक्षणा ७.२.७ वृद्धिः न भवति॥
<<हनो वध लिङि>> - हनो वध ।वधे॑ति लुप्तप्रथमाकम् । हनो वधादेशः स्यादार्धधातुके लिङीत्र्थः ।
हनो वध लिङ्॥ यिकारान्तश्चायमादेश इति। कुत एतत्? शैलीयमाचार्यस्य यत्र व्यञ्जनान्त आदेशस्तत्रेकारमुच्चारयति, यथा जग्ध्यादौ। तस्मादिकाराकरणादकारान्तोऽयमादेशः। हलन्तलज्ञणा वृद्धिर्न भवतीति। उतरसूत्रेण वधादेशे कृत इति भावः॥