2-4-41 वेञः वयि आर्धधातुके लिटि अन्यतरस्याम्
<<लिट्यन्यतरस्याम्>> २.४.४० इति वर्तते। वेञो वयिरादेशो भवत्यन्यतरस्यां लिटि परतः। इकार उच्चारणार्थः। उवाय, ऊयतुः, ऊयुः। पक्षे — ऊवतुः, ऊवुः। <<लिटि वयो यः>> ६.१.३८ इति यकारस्य संप्रसारणं प्रतिषिध्यते। <<वश्चास्यान्यतरस्यां किति>> ६.१.३९ इति वकारो विधीयते। ववौ, ववतुः, ववुः। <<वेञः>> ६.१.४० इति संप्रसारणं न भवति॥
वा स्याल्लिटि । इकार उच्चारणार्थः । उवाय ॥