2-4-3 अनुवादे चरणानाम् एकवचनम् द्वन्द्वः च
चरणशब्दः शाखानिमित्तकः पुरुषेषु वर्तते। चरणानां द्वन्द्व एकवद् भवति, अनुवादे गम्यमाने। प्रमाणान्तरावगतस्यार्थस्य शब्देन संकीर्तनमात्रमनुवादः। उदगात् कठकालापम्। प्रत्यष्ठात् कठकौथुमम्। कठकालापादीनामुदयप्रतिष्ठे प्रमाणान्तरावगते यदा पुनः शब्देनानूद्येते तदैवमुदाहरणम्। यदा तु प्रथमत एवोपदेशस्तदा प्रत्युदाहरणम्। अनुवाद इति किम्? उदगुः कठकालापाः। प्रत्यष्ठुः कठकौथुमाः ॥ स्थेणोरद्यतन्यां चेति वक्तव्यम्॥ स्थेणोरिति किम्? अनन्दिषुः कठकालापाः। अद्यतन्यामिति किम्? उद्यन्ति कठकालापाः॥
चरणानां द्वन्द्व एकवत्स्यात्सिद्धस्योपन्यासे ।<!स्थेणोर्लुङीति वक्तव्यम् !> (वार्तिकम्) ॥ उदगात्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् ॥
<<अनुवादे चरणानाम्>> - अनुवादे चरणानाम् । चरणानां द्वन्द्व एकवदिति । शाखाध्येतृविशेषणास्चारणाः । तद्वाचिना परस्परद्वन्द्वः । एकवदित्यर्थः । 'अनुवादे' इत्येतद्व्याचष्टे — सिद्धस्योपन्यासे इति । अवगतार्थस्य प्रतिपादने इत्यर्थः । स्थेणोरिति । लुङीति प्रत्येकमन्वयाभिप्रायमेकवचनम् । लुङन्ते स्थाधातौ, लुङन्ते इण्धातौ च प्रयुज्यमान एव अनुवादे चरणानां द्वन्द्व एकवदिति वक्तव्यमित्यर्थः । उदगादिति । प्रादुरभूदित्यर्थः । इण्धातोर्लुङि रूपम् । कठकालापमिति । कठेन प्रोक्तमधीयते इति कठाः । वैशम्पायनान्तेवासित्वाण्णिनिः । तस्यकठचरका॑दिति लुक् । ततोऽध्येतृप्रत्ययस्यप्रोक्ताल्लु॑गिति लुक् । कलापिना प्रोक्तमधीयते इति कालापाः । प्रोक्तार्थेकलापिनोऽण् । सब्राहृचारिपीठसर्पित्यापिना टिलोपः । ततोऽध्येत्रणःप्रोक्ताल्लु॑गिति लुक् । कठानां कालापानां च समाहार इति विग्रहः । प्रत्यष्ठादिति । प्रतिपूर्वात्स्ताधातोर्लुङि रूपम् । कठकौतुममिति । कठेन प्रोक्तमधीयत इति कठाः । कौथुमिना प्रोक्तमधीयते इति कौथुमाः । प्रोक्तेऽर्थेतेन प्रोक्त॑मित्यण् ।सब्राहृचारी॑त्यनेन टिलोपः । ततोऽध्येत्रणो लुक् । कठानां कौथुमानां च समाहार इति विग्रहः । यदा कठाः कलापाश्च उदिताः, यदा कठाः कौथुमाश्च प्रतिष्ठिताः, तदा किञ्चिदिदं वक्तव्यमिति कृतसङ्कतयोरिदं वाक्यद्वयम् । अत्रोदयप्रतिष्ठयोः पूर्वसिद्धयोरनुवादादेकत्वम् । स्थेणोः किम् । अभूवन्कठकालापा#ः । लुङि किम् । अतिष्ठन्कठकालापाः ।
अनुवादे चरणानाम्॥