2-4-37 लुङ्सनोः घस्लृ आर्धधातुके अदो
index: 2.4.37 sutra: लुङ्सनोर्घसॢ
लुङि सनि च परतोऽदो घस्ल्̥ आदेशो भवति। ल्̥दित्करणमङर्थम्। लुङि अघसत्, अघसताम्, अघसन्। सनि जिघत्सति, जिघत्सतः, जिघत्सन्ति। घस्ल्̥भावेऽच्युपसङ्ख्यानम्। प्रात्तीति प्रघसः।
index: 2.4.37 sutra: लुङ्सनोर्घसॢ
अदो घसॢ स्याल्लुङि सनि च । लृदित्त्वादङ् । अघसत् ।{$ {!1012 हन!} हिंसागत्योः$} । प्रणिहन्ति ॥
index: 2.4.37 sutra: लुङ्सनोर्घसॢ
अदो घसॢ स्याल्लुङि सनि च। ऌदित्वादङ्। अघसत्। आत्स्यत्॥ {$ {! 2 हन !} हिंसागत्योः $}॥ हन्ति॥
index: 2.4.37 sutra: लुङ्सनोर्घसॢ
लुङ्सनोर्घसॢ - लुङ्सनोर्घस्लृ ।अदो जग्धिः इत्यतोऽद इत्यनुवर्तते । तदाह — अद इति । लृदित्त्वस्य प्रयोजनमाह — लृदित्त्वादिति । हनधातुरिनिट् । प्रणिहन्तीति । शपो लुक् । नस्याऽनुस्वारपरसवर्णौ ।नेर्गदे॑ति णत्वम् ।
index: 2.4.37 sutra: लुङ्सनोर्घसॢ
लुङ्सनोर्धस्तु॥ ननु'सृघस्यदः क्मरच्' इति वचनाद् न्न्न्न्न्न्न्न्न्त्यन्तरमस्ति? सत्यम्; अदेरात्सीद् अत्सिषतीत्यनिष्ट्ंअ रूपं मा भूदिति योगारम्भः। प्रातीति प्रघस इति, पचाद्यच्। अस्यापि सूत्रवदेव प्रयोजनम्॥