द्वितीयाटौस्स्वेनः

2-4-34 द्वितीयाटौस्सु एनः इदमः एतदः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अन्वादेश अनुदात्त इति वर्तते। द्वितीया टा ओस् इत्येतेषु परत इदमेतदोरन्वादेशविषययोरेनशब्द आदेशो भवत्यनुदात्तः। इदमो मण्डूकप्लुतिन्यायेनानुवृत्तिः। इमं छात्रं छन्दोऽध्यापय, अथो एनं व्याकरणमध्यापय। अनेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम्। अनयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्। एतदः खल्वपि — एतं छात्रं छन्दोऽध्यापय, अथो एनं व्याकरणमप्यध्यापय। एतेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम्। एतयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्॥ एनदिति नपुंसकैकवचने वक्तव्यम्॥ प्रक्षालयैनत्। परिवर्तयैनत्। इह कस्माद् न भवति — अयं दण्डो हरानेन, एतमातं ङितं विद्यादिति? यत्र किञ्चिद् विधाय वाक्यान्तरेण पुनरन्यदुपदिश्यते सोऽन्वादेशः। इह तु वस्तुनिर्देशमात्रं कृत्वैकमेव विधानम्॥

Siddhanta Kaumudi

Up

द्वितीयायां टौसोश्च परत इदमेतदोरेनादेशः स्यादन्वादेशे । किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातु पुनरुपादानमन्वादेशः । यथाऽनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वमिति । एनम् । एनौ । एनान् । एनेन । एनयोः । गणयतेर्विच् । सुगण् । सुगणौ । सुगणः । सुगण्ठ्सु । सुगण्ट्सु । सुगण्सु । क्विप् । अनुनासिकस्य क्विझलोः <{SK2666}>इति दीर्घः । सुगाण् । सुगाणौ । सुगाणः । सुगाण्ठ्सु । सुगाण्ट्सु । सुगाण्सु । परत्वादुपधादीर्घः । हल्ङ्यादिलोपः । ततो नलोपः । राजा ॥

Laghu Siddhanta Kaumudi

Up

इदमेतदोरन्वादेशे । किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथा - अनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वमिति ॥ एनम् । एनौ । एनान् । एनेन । एनयोः । एनयोः ॥ राजा ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्वितीयाटौस्स्वेनः>> - द्वितीयाटौस्स्वेनः । द्वितीया च टाश्च ओश्च द्वितीयाटौसः, तेष्विति द्वन्द्वः । 'इदमोऽन्वादेशे' इत्यत 'इदम' इति, 'अन्वादेशे' इति चानुवर्तते । 'एतदस्त्रतसोः' इत्यत 'एतद' इति च । तदाह — द्वितीयायामित्यादिना । 'अनावादेश' शब्दं व्याचष्टे-किञ्चिदिति । विधातुमिति । अपूर्वं बोधयितुमित्यर्थः । अन्वादेशमुदाहृत्य दर्शयति -यथेति । उदाहरणप्रदर्शने यथाशब्द ।ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् इत्यत्र तु एनादेशो न, पूर्वार्धस्य यच्छब्दयोगेनानुवादत्वात् । किञ्चित् कार्यं विधातुमुपात्तस्य इत्यत्र च पूर्ववाक्ये यथाकथंचित्तदुपादानं विवक्षितं, न त्विदमैवेत्याग्रह इति भाष्ये स्पष्टम् । इति मान्ताः । अथ णकारान्ताः । गणयतेर्विजिति । 'गण सङ्ख्याने' इति चुरादिरदन्तः । ततः सुपूर्वात्स्वार्थे णिच् । अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः । तस्माद्विच्,अन्येभ्योऽपि दृश्यते॑ इति वचनाण्णिलोपः, अपृक्तलोपः, ततः सुबुत्पत्तिः, हल्ङ्यादिना सुलोपः । सुगण् इति रूपम् । सुगणौ, सुगण इत्याद्यविकृतमेव । सुपिङ्णोः कुक्टुक्शरी॑ति टुग्विकल्पः । 'चयो द्वितीयाः' इति टस्य ठ इत्यभिप्रेत्याह — सुगण्ठ्सु इति । द्वितीया.ञभावे रूपमाह — सुगण्ट्सु इति । टुगभावे रूपमाह — सुगण्सु इति । सुगाणिति । गणधातोरदन्ताण्णिच्, अल्लोपः । तस्य स्थानिवत्त्वान्नोपधावृद्धिः । तस्मात्क्विप्, णिलोपः अपृक्तलोपः ।अनुनासिकस्य क्विझलो॑रिति दीर्घः । सुगाणिति रूपम् । सुगाणौ सुगाण इत्यादि । नच दीर्घे कर्तव्ये णिलोपाऽल्लोपयोः स्थानिवत्त्वं शङ्क्यं, दीर्घविधौ तन्निषेधात् , क्वौ विधिं प्रति तन्निषेधाच्च । इति आन्ताः । अथ नान्ताः । राजन्शब्दे विशेषमाह — परत्वादिति । हल्ङ्यादिलोपापेक्षया परत्वात्पूर्वमेवसर्वनामस्थाने चाऽसंबुद्धौ॑ इति दीर्घः । ततो हल्ङ्यादिलोप इत्यर्थः । नचविप्रतिषेधे यद्बाधितं तद्वाधितमेवे॑ति न्यायात्कथमिह हल्ङ्यादिलोप इति वाच्यं,पुनः प्रसङ्गविज्ञानात्सिद्ध॑मिति । विप्रतिषेधे यद्वाधितं॑मित्यस्याऽसार्वत्रिकत्वादिति भावः । नलोप इति ।न लोपः प्रातिपदिकान्तास्ये॑ति नकारस्य लोप इत्यर्थः ।

Padamanjari

Up

द्वितीयाटौस्स्वेनः॥ अनन्तरत्वादेतद एवैनादेशः प्राप्नोति, इदमोऽपीष्यते, तदिदमो ग्रहणं कर्तव्यम्? न कर्तव्यम्, ठिदमोऽन्वादोशेऽ इत्यत इदम इत्यनुवर्तिष्यते, एतदस्त्रतसोरित्यत्रापि संबन्धातस्यापि त्रतसोरादेशप्रसङ्गस्तत्राह - इदमो मण्डूअकप्लूतिन्यायेनानुवृत्तिरिति। इदमप्यत्र वक्तव्यम् - इदमो हप्रत्ययेन बाधितत्वात्रलोऽसम्भावात्रतसोहित्यत्रासम्बन्ध इति। यदि परमनुवृत्तिसामर्थ्यातस्याप्यादेशेन भाव्यम्, न चासति त्रलि तद्विधानमुपपद्यत इति त्रलः सता परिकल्प्यते? कल्प्यते? तदपि न; उतरार्थमप्यनुवृत्तिसम्बवादिति। एनदिति नपुंसकैकवचने वक्तव्यमिति। एनादेशे कृते ठतोऽम्ऽ इत्यम्भावे सत्येनमिति प्राप्नोत्यत एनदादेशो वक्तव्यः। यद्येवम्, अयमेव सर्वत्रास्तु, नार्थ एनादेशेन, कथम् - एनम् एनौ एनान्, ऐनेन, एनयोरिति? त्यदाद्यत्वे कृते भविष्यति, नपुंसकैकवचने तु नित्यत्वात्'स्वमोर्नपुंसकात्' इति लुकि कृते एनदिति स्यादिति सिद्धम्, इह त्वेनं श्रित इति द्वितीयासमासे यद्यप्येनादेशोऽथाप्येनदादेशः, उभायभ्यामपि न भाव्यम्, कथम्? ठन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधतेऽ,तस्मादेतच्छ्रित इति भवति। एकमएव विधानमिति। ठयं दण्डःऽ इत्यनेन दण्डस्य सतामात्रमुपलक्ष्यते, न तु किञ्चिद्विधीयते। एवमीषदर्थ इत्यादिना आकारस्य स्वरूपमात्रं निर्दिश्यते, न तु किञ्चिद्विधीयते॥