एतदस्त्रतसोस्त्रतसौ चानुदात्तौ

2-4-33 एतदः त्रतसोः त्रतसौ च अनुदात्तौ इदमः अन्वादेशे अश् अनुदात्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अन्वादेश अनुदात्त इति वर्तते। एतदोऽन्वादेशविषयस्याशादेशो भवत्यनुदात्तस्त्रतसोः परतः। तौ चापि त्रतसावनुदात्तौ भवतः। एतस्मिन् ग्रामे सुखं वसामः, अथोऽत्र युक्ता अधीमहे। एतस्माच्छात्राच्छन्दोऽधीष्व, अथोऽतो व्याकरणमप्यधीष्व। सर्वानुदात्तं पदं भवति। <<एतदोऽश्>> ५.३.५ इत्यशादेशे लब्धे पुनर्वचनमनुदात्तार्थम्॥

Siddhanta Kaumudi

Up

अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः । एतस्मिन् ग्रामे सुखं वसामः । अथोऽत्राधीमहे । अतो न गन्तास्मः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<एतदस्त्रतसोस्त्रतसौ चानुदात्तौ>> - एतदस्त्रतसोः । 'इदमोऽन्वादेशे' इत्यस्मादन्वादेशे अशनुदात्त इत्यनुवर्तते । तदाह — अन्वादेशेत्यादिना । अतोऽत्रेति । एतच्छब्दात्तसिल्, प्रकृतेरशादेशः । एतदोऽ॑न्नित्येव सिद्धेऽनुदात्तार्थं वचनम् । नच लित्स्वरे सति शेषनिघातेन त्रतयसोरनुदात्तत्वं सिद्धमिति शङ्क्यं, लित्स्वरापवादेऽशोऽनुदात्तत्वे कृते लित्स्वराऽप्राप्त्या प्रत्ययस्वरेण त्रतसोरुदात्तत्वे प्राप्ते तद्विधानार्थत्वात् ।

Padamanjari

Up

एतदस्त्रतसोस्त्रतसौ चानुदातौ॥ पुनर्वचनमनुदातार्थमिति। पाञ्चमिकोऽशादेश उदातः स्याद्, अनुदातश्चेष्यते इत्यनुदातार्थ पुनर्वचनम्। त्रतसोरिति वचनं निमितभावार्थम्; अन्यथा'त्रतसौ चानुदातौ' इत्यन्वाचयो विज्ञायेत - यत्र त्रतसौ पश्यसि तत्र तावनुदाताविति। किमर्थं पुनस्त्रतसोरनुदातत्वमिष्यते, यावताऽत्रात इत्यादौ त्रतसोः कृतयोः प्रकृतेर्लित्स्वरे कृते शेषनिघातेन प्रत्ययानुदातत्वेसत्यशनुदातः करिष्यते? यद्येवं लभ्यते, कृतं स्यात्; ततु न लभ्यम्। इह हि त्रतसोः कृतयोर्लित्स्वरश्च प्राप्नोति, अनेन चानुदातोऽशादेशः, तत्र येन नाप्राप्तिन्यायेनापवादत्वान्नित्यत्वाच्चानुदातेऽशादेशे कृते तद्विधानसामर्थ्यादपवादस्य लित्स्वरस्याप्रवृतानुत्सर्गः प्रत्ययस्वर एव त्रतसोः स्यात्, यथा - गोष्पदप्रमित्यत्र णमुल उलोपेन सहि विधानाल्लित्स्वराप्रवृतौ प्रत्ययाद्यौदातत्वे सति कृदुतरपदप्रकृतिस्वरेणान्तोदातं पदं भवति। तस्मात्'त्रतसौ चानुदातौ' इति वक्तव्यम्॥