इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ

2-4-32 इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आदेशः कथनम्, अन्वादेशोऽनुकथनम्। इदमोऽन्वादेशविषयस्याशादेशो भवत्यनुदात्तस्तृतीयादौ विभक्तौ परतः। आभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम्। अस्मै छात्राय कम्बलं देहि, अथोऽस्मै शाटकमपि देहि। अस्य छात्रस्य शोभनं शीलम्, अथोऽस्य प्रभूतं स्वम्। अशादेशवचनं साकच्कार्थम्। इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम्। नेह पश्चादुच्चारणमात्रमन्वादेशः। किं तर्हि? एकस्यैवाभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेशः। तेनेह न भवति — देवदत्तं भोजय, इमं च यज्ञदत्तमिति॥

Siddhanta Kaumudi

Up

अन्वादेशविषयस्येदमोऽनुदात्तोऽशादेशः स्यात्तृतीयादौ । अश्वचनं साकच्कार्थम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

इदमोऽन्वादेशेऽशनुदातस्तृतीयादौ॥ अन्वादेशोऽनुकथनमिति। शब्दार्थकथनमेतत्, याद्दशस्त्वत्राभिप्रेतस्ताद्दशं पश्चाद्वक्ष्यति। आभ्यां छात्राभ्यामिति। आदेश एषः। अथो आच्छभ्यामिति। एषोऽन्वादेशः। अथोशब्देन चात्रान्वादेशऽभिव्यज्यते। ननु तृतीयादावयमादेशस्ततत्र च टायामोसि चैनादेशो वक्ष्यते, अन्याः सर्वा हलादयः, तत्र हलिलोपेनैवाभ्यामित्यादिरूपं सिद्धम्; नार्थ आदेशवचनेन, तत्राह - आदेशवचनमिति। अज्ञाताद्यर्थविवक्षायामकचि कृते'हलि लोपः' इत्यत्र ठनाप्यकःऽ इत्यतोऽक इत्यधिकारादिद्रूपलोपो न स्यात्, सत्यपि च तस्मिन्नाभ्यामित्यादि रूपं न सिद्ध्यत्; तस्मात्साकच्कार्थमादेशवचनम्। साच्कार्थे चास्मिन् शित्करणं सर्वादेशार्थम्, न वान्त्यस्य विकारवचनानर्थक्यात्। यदि ह्ययमन्त्यस्य विकारः स्याद्वचनमिदमनर्थकं स्यात्; त्यदाद्यत्वेनैव सिद्धेः। अर्थवद्वादेशप्रतिषेधार्थम्। अन्त्यस्यापि विकारवचनमर्थवदेव, येऽन्य आदेशा आभ्यामित्यादौ दीर्घादयस्ते मा भूवन्नित्यकारस्याप्यकारवचनं स्यात्, यथा - मोराजिसमः क्वौऽ इति मकारस्य मकारवचनमनुस्वारनिवृत्यर्थम्। ननु च कृतेऽप्य कचि अनेनादेशे सत्याभ्यामित्यादिरूपस्य साधारण्या9दज्ञाताद्यर्थगतिः प्रकरणाधीना। यद्येवम्, अनुत्पत्तिरेवाकचोऽस्तु, प्रकरणादिनैवाज्ञाताद्यर्थः प्रतिपत्स्यते,। अतोऽनुदातत्वमेव विधेयम्, नादेशः? उच्यते - असत्यादेशे प्रकरणादिकमन्तरेणाकचैव कश्चिदज्ञातादिकं प्रतिपादयेत्, मैवं प्रतिपीपददित्यादेशवचनम्। उतरार्थ च। अनुदातवचनं किमर्थम्, यावता ठूडिदम्पदादिऽ इति विभक्तेरुदातत्वं शेषनिघातेनैव सिद्धम्। अनुदातवचनं विभक्त्वयन्तस्यानुदातार्थम्, शेषनिघातेन हि प्रकृतेरेवानुदातत्वं सिद्ध्यति। कथं पुनरिदमस्तृतीयादावशादेशो भवति, स चानुदात इत्यनेन विभक्त्यन्तस्यानुदातत्वं विधातुं शक्यम्? नानेन विभक्त्यन्तस्यानुदातत्वं विधीयते, किं त्वनेन प्रकृतेरनुदातत्वे कृते ठूडिढम्ऽ इत्यत्रान्तोदातादित्यदिकारादसति विभक्तेरुदातत्वेठ् अनुदातौ सुप्पितौऽ इत्यनुदातत्वादाभ्यामित्यादि पदं कृत्स्नमेवानुदातं भवति। यद्यन्वादेशोऽनुकथनम्, इहापि प्राप्नोति - देवदतं भोजजय, इमं च यज्ञदतमिति, अस्ति ह्यत्रान्वादेशः, तत्र द्विदीयाटौस्स्वेनःऽ इत्येनादेशः प्राप्नोति? इत्यत आह - नेहेति। एकस्यैवाभिधेयस्येत्यादि। तत्रैवान्वादेशशब्दः प्रसिद्धतर इति भावः॥