हेमन्तशिशिरावहोरात्रे च च्छन्दसि

2-4-28 हेमन्त्शिशिरौ अहोरात्रे च छन्दसि पूर्व

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अपोनप्तृ अपान्नप्तृ इत्येताभ्यां छकारः प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। अणोऽपवादः। अपोनप्त्रीयं (ऐ०ब्रा० २.१९) हविः। अपान्नप्त्रीयम् (काठ० सं० १२.६)। योगविभागः संख्यातानुदेशपरिहारार्थः॥ छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम्॥ पैङ्गाक्षीपुत्रीयम्। तार्णबिन्दवीयम्॥ शतरुद्राच्छश्च घश्च॥ श॒त॒रु॒द्रीय॑म् (तै०सं० ५.४.३.१)। श॒तरु॒दि्॑रय॒म् (मै०सं० ३.३.४)॥

Siddhanta Kaumudi

Up

द्वन्द्वः पूर्ववल्लिङ्गः । हेमन्तश्च शिशिरं च हेमन्तशिशिरौ । अहोरात्रे । अदिप्रभृतिभ्यः शपः <{SK2423}> ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

हेमन्तशिशिरावहेरात्रे च च्छन्दसि॥ हेमन्तशिशिराविति। अत्र नपुंसकत्वं प्राप्तं शिशिरशब्दस्य नपुंसकत्वात्। केचितु'हेमन्तः शिशिरो' स्त्रियाम्ऽ इत्युभयलिङ्गंमन्यन्ते, तेषामत्र हेमन्तशिशिरावित्यनर्थकम्। अहोरात्रे इति। अत्र रात्राह्नाहाः पुठ्सऽ इति पुंस्त्वं प्राप्तम्। लिङ्गव्यत्यय उक्त इति ।'व्यत्ययो बहुलम्' इत्यनेन॥