2-4-27 पूर्व वत् अश्ववडवौ
index: 2.4.27 sutra: पूर्ववदश्ववडवौ
अश्ववडवयोर्विभाषएकवद्भावः उक्तः। तत्र एकवद्भावादन्यत्र परविल्लिङ्गतायां प्राप्तायाम् इदमारभ्यते। अश्ववडवयोः पूर्ववल्लिङ्गं भवति। अश्वश्च वडवा च अश्ववडवौ। अर्थातिदेशश्च अयम्, न निपातनम्। तत्र द्विवचनमतन्त्रम्। वचनान्तरेऽपि पूर्ववल्लिङ्गता भवति, अश्ववडवान्, अश्ववडवैः इति।
index: 2.4.27 sutra: पूर्ववदश्ववडवौ
द्विवचनमतन्त्रम् । अश्ववडवौ । अश्ववडवान् । अश्ववडवैः ॥
index: 2.4.27 sutra: पूर्ववदश्ववडवौ
पूर्ववदश्ववडवौ - पूर्वपदआवडवौ ।अआश्च बहवा चे॑ति द्वन्द्वे परवल्लिङ्गं बाधित्वा पूर्ववल्लिङ्गार्थमिदम् ।अआवडवाविति द्वन्द्वः पूर्वपदस्य लिङ्गं लभते॑ #इत्यर्थे बहुवचने विभक्त्यन्तरे च न स्यादित्यत आह — द्विवचनमतन्त्रमिति । उपलक्षममिदम् द्विवचनं विभक्तिश्चेति द्वयमपि अविवक्षितमित्यर्थः ।पूर्वव॑द्ग्रहणमत्र लिङ्गमन्यथा निपातनादेव सिद्धे किं तेनेति भावः ।
index: 2.4.27 sutra: पूर्ववदश्ववडवौ
पूर्ववदश्ववडवौ॥ अश्वडवयोरिति।'विभाषा वृक्ष' इत्यत्र'पशुद्वन्द्व' इत्येव सिद्धेऽश्ववडवग्रहणं प्रतिपदविधानार्थम्, तत्र प्रतिपदविधानादश्ववडवमित्येकवद्भावपक्षे इमं विधं बाधित्वा'स नपुंसकम्' इत्येतदेव भवति। तच्छब्देन ह्यएकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमप्येकवद्भाववदेव प्रतिपदविहितं भवति। यस्तु पूर्ववदित्यतिदेशः स एकबद्भावाभावपक्षे चरितार्थः, तदाह - तत्रैकवद्भावादन्यत्रेति। न निपातनमिति। निपातने हि पूर्ववदिति वचनमनर्थकम्, अविवक्षितमित्यर्थः। निपातने तु तद्विवक्षितं स्याद्, यथोच्चारितरूपविषयत्वान्निपातस्य॥