विभाषा सेनासुराच्छायाशालानिशानाम्

2-4-25 विभाषा सेनासुराच्छायाशालानिशानाम् स नपुंसकम् तत्पुरुषः अनञ्कर्मधारयः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सेना सुरा छाया शाला निशा इत्येवमन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति विभाषा। ब्राह्मणसेनम्, ब्राह्मणसेना। यवसुरम्, यवसुरा। कुड्यच्छायम्, कुड्यच्छाया। गोशालम्, गोशाला। श्वनिशम्, श्वनिशा॥

Siddhanta Kaumudi

Up

एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम् । ब्राह्मणसेना । यवसुरम् । यवसुरा । कुड्यच्छाम् । कुड्यच्छाया । गोशालम् । गोशाला । श्वनिशम् । श्वनिशा । तत्पुरुषोऽनञ्कर्मधारय - <{SK822}> इत्यनुवृत्तेर्नेह । दृढसेनो राजा । असेना । परमसेना ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषा सेनासुराछायाशालानिशानाम्>> - विभाषा सेना । प्रथमार्ते षष्ठी । 'तत्पुरुष' इत्यनुवृत्तं सेनादिभिर्विशेष्यते । तदन्तविधिः । तदाह — एतदन्त इति । प्रत्येकाभिप्रायमेकवचनम् । आनिशमिति । शुनो निशेति विग्रहः । कृष्णचतुर्दशीत्याहुः ।शुनश्चतुर्दश्यामुपवसतः पश्यामः॑ इति तिर्यगधिकरणे शाबरभाष्ये स्थितम् । दृढसेन इति । दृढा सेना यस्येति बहुव्रीहिः । तत्पुरुषत्वाऽभावान्न क्लीबत्वविकल्पः । असेनेति । तत्पुरुषत्वेऽपि नञ्समासत्वान्न क्लीबत्वविकल्पः । परमसेनेति । कर्मधारयत्वान्न कील्बत्वम् ।तत्पुरुषोऽनञ्कर्मधारयः॑ इत्यदिकारस्याऽत्रैव प्रयोजनमिति कैयटे प्रपञ्चितम् । *इति तत्पुरुषसमासः***टित्ले । वैयाकरण-सिद्धान्त-कौमुदी,श्रीमज्ज्ञानेन्द्रभिक्षुविरचितया तत्त्वबोधिनीटीकया, श्रीवासुदेवभट्टदीक्षितविरचितया बालोपकारिण्या बालमनोरमाख्यया व्याख्यया, (तत्पुरुषादारभ्य) महामहोपाध्याय-श्रीनागेशभट्टविरचितया लघुशब्देन्दुशेखरटीकया च समन्विता ।टीकत्रयोपेता आउथोर्ः महामहोपाध्यायश्रीभट्टोजिदीक्षितफुब्लिचतिओन्ः भ्हरथिय भोओक् चर्पोरतिओन्,१,ऊ ।भ् ।झवहेर्णगर्, भन्ग्लो ऋओअद्,डेल्हि-११०००७ । आच्चेस्सिओन् णो । ५१४७१येअर् ओf Eदितिओन् । १९९७ (Fइर्स्त्)फगेस् । ७६८प् ।शिऽए । २४च्म् ।ईश्भ्ण् । ८१-८५१२२-२२-७ळन्गुअगे । शन्स्क्रित्श्च्रिप्त् । डेवनगरिशुब्जेच्त् ःएअदिन्ग्स् । शन्स्क्रित्घ्रम्मर्Cलस्सिfइचतिओन् णो । फ्१५, Cक्ष्१,१,६,५भोओक् णो । ण् ९७फ्रिचे । ५००.०० ऋस्/-अथ ठगधिकार प्रकरणम् । — — — — — — — — -

Padamanjari

Up

विभाषा सेनासुराच्छायाशालानिशानाम्॥ तत्पुरुष इति प्रकृतं षष्ठीबहुवचनान्तं विपरिणम्यते, नपुंसकमिति च भावप्रधानं संपद्यते। सेनाद्यन्तानां तत्पुरुषाणां नपुंसकत्वमित्यक्षरार्थः। वृतौ तु वस्तुमात्रं दशितम्। यद्वा - प्रथमास्थाने षष्ठी। कुड।ल्च्छायमिति। बाहुल्याभावेऽनेन विकल्पः, बाहुल्ये नित्यार्थम्'छाया बाहुल्ये' इत्युक्तम्। श्वनिशमिति। यस्यां निशायां श्वान उपवसन्ति सा श्वनिशमित्युच्यते। सा पुनः कृष्णचतुर्दशी तस्यां हि श्वान उपवसन्तीति प्रसिद्धिः॥