2-4-24 अशाला च स नपुंसकम् तत्पुरुषः अनञ्कर्मधारयः सभा
index: 2.4.24 sutra: अशाला च
अशाला च या सभा तदन्तस् तत्पुरुषो नपुंसकलिङ्गो भवति। सङ्घातवचनोऽत्र सभाशब्दो गृह्यते। स्त्रीसभम्। दासीसभम्। दासीसङ्घातः इत्यर्थः। अशाला इति किम्। अनाथकुटी इत्यर्थः।
index: 2.4.24 sutra: अशाला च
सङ्घातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसंघात इत्यर्थः । आशाला किम् । धर्मसभा । धर्माशालेत्यर्थः ॥
index: 2.4.24 sutra: अशाला च
अशाला च - अशाला च । अशालार्थकेत्यर्थः । सभाशब्दः शालायां, सङ्घातार्थे च वर्तते । तत्र राजाऽमनुष्यपूर्वकस्य शालावाचिनः सभाशब्दस्य पूर्वसूत्रे क्लीबत्वमुक्तम्, संप्रति सङ्घातवाचिनः सभाशब्दस्य क्लीबत्वमुच्यत इत्याह — सङ्घातार्था या सभेति । सभाशब्द इत्यर्थः ।
index: 2.4.24 sutra: अशाला च
अशाला च॥ सभाशब्दोऽयं शालावचनः, संघवचनश्च, तत्र शालाप्रतिषेधादितरस्य ग्रहणमित्याह - संघातवचन इत्यादि। तत्र पूर्वसूत्रेण राजामनुष्यपूर्वत्वे शालावचनस्यापि भविष्यति, अशालावचनस्य त्वनेन राजामनुष्यपूर्वत्वाभावेऽपीति॥