2-4-22 छाया बाहुल्ये स नपुंसकम् तत्पुरुषः अनञ्कर्मधारयः
index: 2.4.22 sutra: छाया बाहुल्ये
विभाषा सेनासुराच्छाया. शालानिशानाम् 2.4.25। इति विभाषां वक्ष्यति। नित्यार्थम् इदं वचनम्। छायाऽन्तस् तत्पुरुषो नपुंसकलिङ्गो भवति बाहुल्ये गम्यमाने। पूर्वपदार्थधर्मः बाहुल्यम्। शलभादीनां हि बहुत्वं गम्यते। शलभच्छायम्। इक्षुच्छायम्। बहुल्ये इति किम्? कुङ्यच्छाया।
index: 2.4.22 sutra: छाया बाहुल्ये
छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्ये । इक्षूणां छाया इक्षुच्छायम् । विभाषासेना - <{SK828}> इति विकल्पस्यायमपवादः । इक्षुच्छायानिषादिन्यः इति तु आ समन्तान्निषादिन्य इत्याङ्श्लेषो बोध्यः ॥
index: 2.4.22 sutra: छाया बाहुल्ये
छाया बाहुल्ये - छाया बाहुल्ये । छायया तत्पुरुषस्य विशेषणात्तदन्तविधिमभिप्रेत्याह — छायान्त इति । पूर्वपदार्थेति । कस्य बाहुल्ये इत्याकाङ्क्षायामापादकद्रव्यनिमित्तकत्वाच्छायायास्तद्बाहुल्ये इति गम्यते । तच्चापादकद्रव्यमर्थात्पूर्वपदार्थभूतमिति भावः । बाहुल्ये किम् । कुडस्य छाया कुडच्छाया ।
index: 2.4.22 sutra: छाया बाहुल्ये
छाया बाहुल्ये॥ पूर्वपदार्थधर्मो बाहुल्यमिति। कथम्? बाहुल्य इति निमितसप्तमी। बाहुल्ये सति या छाया तद्वाची यश्छायाशब्दस्तदन्तस्तत्पुरुष इति सूत्रेऽक्षरान्वयः। तत्र कस्य बाहुल्यमित्यपेक्षायामावारकरद्रव्यनिमितकत्वाच्छायायास्तद्वाहुल्य इति गम्यते। तेन यानि बहूनि सम्भूयोपलम्भयोग्यामुपजीव्यां वा छायामारभन्ते तेष्वयं विधिः॥