उपज्ञोपक्रमं तदाद्याचिख्यासायाम्

2-4-21 उपज्ञोपक्रमं तताद्याचिख्यासायाम् स नपुंसकम् तत्पुरुषः अनञ्कर्मधारयः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपज्ञायत इत्युपज्ञा, उपक्रम्यत इत्युपक्रमः। उपज्ञा चोपक्रमश्च, उपज्ञोपक्रमम्। तदन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति तदाद्याचिख्यासायाम्, तयोरुपज्ञोपक्रमयोरादेराचिख्यासायां गम्यमानायाम्। आख्यातुमिच्छा आचिख्यासा। यद्युपज्ञेयस्योपक्रम्यस्य चार्थस्यादिराख्यातुमिष्यते, तत एतद् भवति। पाणिन्युपज्ञमकालकं व्याकरणम्। पाणिनेरुपज्ञानेन प्रथमतः प्रणीतमकालकं व्याकरणम्। व्याङ्युपज्ञं दुष्करणम्। आढ्योपक्रमं प्रासादः। नन्दोपक्रमाणि मानानि। दर्शनीयोपक्रमम्। सुकुमारोपक्रमम्। उपज्ञोपक्रममिति किम्? वाल्मीकिश्लोकाः। तदाद्याचिख्यासायामिति किम्? देवदत्तोपज्ञो रथः। यज्ञदत्तोपक्रमो रथः॥

Siddhanta Kaumudi

Up

उपज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् तयोरुपज्ञायमानोपक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यातुमिष्यते । पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोपक्रमं द्रोणः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उपज्ञोपक्रमं तदाद्याचिख्यासायाम्>> - तदाह — उपज्ञान्त उपक्रमान्तश्चेति । तच्छब्देन उपज्ञोपक्रमौ विवक्षितौ । आदिशब्दो भावप्रधानः प्राथम्ये वर्तते । तयोरादिः=प्राथम्यं — तदादिः । तस्य आचिख्यासा=आख्यातुमिच्छा । विवक्षायामिति यावत् । तदाह — तयोरादिरित्यादि । पाणिनेरुपज्ञेति । कर्तरि षष्ठी । पाणिन्युपज्ञं ग्रन्थ इति । पाणिनिना प्रथमं ज्ञायमान इत्यर्थः । इदं प्रकरणं परवलिङ्गत्वस्य विशेष्यनिघ्नत्वस्य चापवादः । नन्दोपक्रमं द्रोण इति । नन्देनारभ्यमाण इत्यर्थः । कर्तरि षष्ठआ समासः ।

Padamanjari

Up

उपज्ञोपक्रमं तदाद्याचिख्यासायाम्॥ उपज्ञायत इत्युपज्ञेति। कर्मणि ठातश्चोपसर्गेऽ इत्यङ्प्रत्ययः। उपक्रम्यत इत्युपक्रम इति कर्मण्येव घञ् ।'नोदातोपदेशस्य' इति वृद्धिप्रतिषेधः। उपज्ञा चोपक्रमश्चेति समाहारद्वन्द्वः। तदन्तस्तत्पुरुष इति। सूत्रे तु उपज्ञोपक्रमं तत्पुरुषरूपमित्येवं सामानाधिकरण्येन विशेषणम्,तयौरुपज्ञोपक्रमयोरित्यादेर्विवरणम् - यदीति। आदिःउप्राथम्यम्। पाणिन्युपज्ञमिति। कर्तरि षष्ठयाः समासः। पूर्वाणि व्याकरणान्यद्यतनादिकालपरिभाषायुक्तानि, तद्रहितं तु व्याकरणं पाणिनिप्रभृतिप्रवृतमित्यस्ति तदादित्वस्याख्यानम्। व्याड।लु पज्ञमिति। अडः वृश्चिकलाङ्गूलम्, तेन च तैक्ष्ण्यं लक्ष्यते, विगताडो व्यडः, तस्यापत्यंव्याडिराचार्यः। स्वागतादिपाठात्'न य्वाभ्याम्' इत्येष विधिर्न भवति। दुषिति सङ्केतशब्दः, यथात्र वृत्करणम्। नन्दो राजा। मानानि प्रस्थादीनि। वाल्मीकिश्लोका इति षष्ठीसमासः। अस्त्यत्र तदादित्वस्याचिख्यासा; वाल्मीकिः प्रथमं श्लोकप्रबन्धं ददर्शति प्रसिद्धेः। देवदतो यज्ञदतेनोपज्ञायते यज्ञदतेनोपक्रम्यते इति क्रियासम्बन्धमात्रमत्र विवक्षितम्॥