संज्ञायां कन्थोशीनरेषु

2-4-20 सञ्ज्ञायां कन्थाः उशीनरेषु स नपुंसकम् तत्पुरुषः अनञ्कर्मधारयः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संज्ञायां विषये कन्थान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् कन्था उशीनरेषु भवति। सौशमिकन्थम्। आह्वरकन्थम्। संज्ञायामिति किम्? वीरणकन्था। उशीनरेष्विति किम्? दाक्षिकन्था। परवल्लिङ्गतापवाद इदं प्रकरणम्॥

Siddhanta Kaumudi

Up

कन्थान्तस्तत्पुरुषः क्लीबं स्यात्सा चेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा । सुशमस्यापत्यानि सौशमयः तेषां कन्था सौशमिकन्थम् । संज्ञायां किम् । वीरणकन्था । उशीनरेषु किम् । दाक्षिकन्था ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संज्ञायां कन्थोशीनरेषु>> - संज्ञायां कन्थो । सुगममेव । उपज्ञा । उपज्ञायते=प्रथमं ज्ञायत इत्युपज्ञा ।स्त्रियां क्ति॑न्नित्यधिकारे 'आतश्चोपसर्गे' इति कर्मण्यङ् । उपक्रम्यते=आरभ्यते इत्युपक्रमः । कर्मणि घञ् ।नोदात्तोपदेशस्ये॑ति वृद्धिनिषेधः । उपज्ञा चोपक्रमश्चेति समाहारद्वन्द्वः । 'तत्पुरुष' इत्यस्य विशेषमिदम् । तदन्तविधिः ।स नपुंसक॑मित्यतोनपुंसक॑मित्यनुवर्तते ।

Padamanjari

Up

संज्ञायां कन्थोशीनरेषु॥ तत्पुरुषस्य कन्थया विशेषणातदन्तविधिरित्याह - कन्थान्तस्तत्पुरुष इति। सौशमिकन्थमिति। सुशमस्यापत्यानि सौशमयः॥