तत्पुरुषोऽनञ् कर्मधारयः

2-4-19 तत्पुरुषः अनञ्कर्मधारयः स नपुंसकम्

Kashika

Up

index: 2.4.19 sutra: तत्पुरुषोऽनञ् कर्मधारयः


अधिकारोऽयमुत्तरसूत्रेषु उपतिष्ठते। नञ्समासं कर्मधारयं च वर्जयित्वाऽन्यस् तत्पुरुषो नपुंसकलिङ्गो भवति इत्येतदधिकृतं विदितव्यम्, यदित ऊर्ध्वमनुक्रमिष्यामस् तत्र। वक्ष्यति विभाषा सेनासुराच्छायाशालानिशानाम् 2.4.25। ब्राह्मणसेनम्, ब्राह्मणसेना। तत्पुरुषः इति किम्? दृढसेनो राजा अनञिति किम्? असेना। अकर्मधार्यः इति किम्? परमसेना।

Siddhanta Kaumudi

Up

index: 2.4.19 sutra: तत्पुरुषोऽनञ् कर्मधारयः


अधिकारोऽयम् ॥

Balamanorama

Up

index: 2.4.19 sutra: तत्पुरुषोऽनञ् कर्मधारयः


तत्पुरुषोऽनञ् कर्मधारयः - तत्पुरुषोऽनञ । नञ्समासकर्मधारयाभ्यां भिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभागित्यर्थः । तदाह — अधिकारोऽयमिति ।परवल्लिङ्गमित्यतः प्रा॑गिति शेषः ।

Padamanjari

Up

index: 2.4.19 sutra: तत्पुरुषोऽनञ् कर्मधारयः


तत्पुरुषोऽनञ्कर्मधारयः॥ असन्देहार्थं नञ्कर्मधारयस्तत्पुरुष इत्यन्यासादनञ्कर्मधारय इति पदच्छेदः। अत्र कर्मधारयशब्दो भावप्रधानः, नञ्च कर्मधारयश्च नञ्कर्मधारयौ, तौ न विद्येते यस्मिंस्तत्पुरुषे सोऽनञ्कर्मधारय इति बहुव्रीहिः। तत्पुरुषे त्वस्मिन्नञ्मात्रस्य तत्पुरुषस्याभावातद्यौक्ततत्पुरुषो नञ्शब्देन लक्षणोयः स्यात्, लिङ्गवचनयोश्चान्यतरस्य व्यत्ययो वाच्यः स्यात्, अतो बहुव्रीहिरेव न्याय्यः। वृतौ वस्तुमात्रं दर्शितम् - नञ्समासं कर्मधारयं च वर्जयित्वेति। विभाषा सेनेति। अनन्तरेषु सूत्रेष्वस्य नातीवोपयोगः,'सञ्ज्ञायां कन्था' इत्यत्र तावदनादिः सञ्ज्ञा गृह्यते, न वा तत्पुरुषो नञ्समासः कर्मधारयो वा उशीनरेषु सञ्ज्ञास्ति, उपज्ञोपक्रममित्यत्रापि षष्ठीतत्पुरुषाद्विना तदादित्वासम्प्रत्ययः।'छाया बाहुल्ये' इत्यत्रापि पूर्वपदार्थधर्मो बाहुल्यं षष्ठीतत्पुरुषमन्तरेण न गम्यते। सभाराजेत्यत्र तु राजाऽमनुष्यपूर्वेति वचनान्नञ्समासस्य कर्मधारयस्य च सभान्तस्याप्रसङ्गः। द्वन्द्वस्य तु प्राप्नोति - ईश्वरश्च सभा च ईश्वरसभे इति, अतस्तत्रापि तत्पुरुष इत्यस्यांशस्योपयोगोऽस्त्येव। ठशाला चऽ इत्यत्र समूहवचनः सभाशब्दः, समूहस्य च समूह्यपेक्षा स्फुटतरेति षष्ठी तत्पुरुषस्यैव भविष्यति, नान्यस्य, ब्राह्मणश्च सभा च ब्राह्मणसभे, असभा, परमसभेति। अतः'विभाषासेना' इत्यत्रैवास्य साक्षादुपयोग इति भावः॥