द्विगुरेकवचनम्

2-4-1 द्विगुः एकवचनम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्विगुः समास एकवचनं भवति। एकस्य वचनमेकवचनम्। एकस्यार्थस्य वाचको भवतीत्यर्थः। तदनेन प्रकारेण द्विग्वर्थस्यैकवद्भावो विधीयते, द्विग्वर्थ एकवद् भवतीति। समाहारद्विगोश्चेदं ग्रहणम्, नान्यस्य। पञ्च पूलाः समाहृताः पञ्चपूली। दशपूली। द्विग्वर्थस्यैकत्वादनुप्रयोगेऽप्येकवचनं भवति — पञ्चपूलीयं शोभनेति॥

Siddhanta Kaumudi

Up

द्विग्वर्थः समाहार एकवत्स्यात् । स नपुंसकम् <{SK821}> इति नपुंसकत्वम् । पञ्चानां गवां समाहारः पञ्चगवम् ॥

Laghu Siddhanta Kaumudi

Up

द्विग्वर्थः समाहार एकवत्स्यात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्विगुरेकवचनम्>> - द्विगुरेकवचनम् । अत्रसमाहारग्रहणं कर्तव्य॑मिति वार्तिकात्समाहार इति लभ्यते । वक्तीति वचनम् । बाहुलकः कर्तरि ल्युट् । सामान्ये नपुंसकम् । समाहारे द्विगुरेकार्थप्रतिपादकः स्यादिति लभ्यते । तत्र यदि समाह्यियत इति कर्मणि घञि समाहारशब्दः समाह्मतप्रधानः तदा समाह्मतगतद्वित्वबहुत्वयोः एकत्वानुपपत्तेरतिदेशः सम्पद्यते । तदाह — द्विग्वर्थः समाहार एकवदिति । यदा समाहरणं समाहारः=समूहः, तदा तस्यैकत्वादेव सिद्धमिति नेदं सूत्रमारम्भणीयमिति भाष्ये स्पष्टम् । केचित्तु समूहस्य वस्तुत एकत्वेऽपि उद्भूतावयवभेदविवक्षया द्विबहुवचनव्यावृत्त्यर्थमिदम् । एवं चात्र उद्भूतावयवभेदविवक्षा न कर्तव्येति फलतीत्याहुः ।स नपुंसकमिति । समाहारे द्विगुद्र्वन्द्वश्च नपुंसकं स्यादिति तदर्थो मूले वक्ष्यते ।[इति द्विगुसमासः] ।

Padamanjari

Up

द्विगुरेकवचनम्॥ अत्र यदि पारिभाषिकमेकवचनं गृह्यएतानुप्रयोगत एकवचनं न स्यान् - पञ्चपूलीयं शोभनेति, तस्याद्विगुत्वाद्'द्विगोः' इति पञ्चम्या च निर्द्देशः स्यात्, अतोऽन्वर्थस्यैकवचनस्येदं ग्रहणमिति मत्वाऽऽह - एकस्य वचनमेकवचनमिति। वक्तीति वचनम्,'कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट्, एकस्यार्थस्य वचनमेकवचनमिति कर्मणि षष्ठयाः समासः। तत्र चैकस्यार्थस्य वाचर्क भवतीति सामान्यनोपक्रमः, पश्चात्किं तदित्यपेक्षायां द्विगुरित्यस्य पुंल्लिङ्गस्य सम्बन्ध इत्येकवचनमिति नपुंसकोपपतिः। एतदेव व्यनक्ति - एकस्यार्थस्येति। एवं च द्विगुरेकार्थस्य वाचको भवति। यदि द्विग्वर्थ एको भवति, न च वस्तुतोऽनेकार्थस्य वचनशतेनाप्येकार्थत्वामापादयितुं शक्यमिति सामर्थ्यादतिदेशो विज्ञायते, तदाह - तदनेन प्रकारेणेति। तदिति वाक्योपन्यासे किमुक्तं भवतीत्याहद्विग्वर्थ एकवद्भवतीति। समाहारद्विगोश्चेदं ग्रहणमिति। तद्वितार्थे यो द्विगुस्तस्यैकवद्भावो मा भूदित्येवमर्थ पञ्चभैर्गोभिः क्रीताः पञ्चगवः पटा इति। अथ क्रियमाणेऽपि समाहारग्रहणे इह कस्मान्न भवति - पञ्चपूली च पञ्चपूली च पञ्चपूल्य इति, शिष्यमाणस्यद्विगुत्वातदर्थस्यैकवद्भावः प्राप्नोति? न वा; बहिरङ्गत्वाद्, बहिरङ्गोऽयं द्विग्वर्थः सत्येव द्विगावेकशेषात्प्रगभावादेकशेषे सति पश्चादुपजायमान्तवादन्तरङ्गे प्राथमकल्पिके द्विग्वर्थे चरितार्थ एकवद्भावोऽत्र न भविष्यति। यद्येवम्, पञ्चगवः पटा इत्यत्राप्येवमेव भविष्यति? सत्यम्; यदा पटाः प्रत्येकं पञ्चभिर्गोभिः क्रिताः, यदा तु बहवः पटाः संहताः पञ्चभिर्गोभिः क्रियन्ते तदाऽयमेकशेषस्याविषयः। यदि तर्हि समाहारद्विगोर्ग्रहणम्, नार्थोऽनेन, कथम्? समाहारःउ समूहः, तस्यैकत्वाद्यौउथं वनमित्यादिवदेकवचनं भविष्यति। यदि तर्हि समाह्रियत इति समाहार इति कर्मसाधनः समाहारशब्दः, तदाऽपेक्षितपरस्पराः पञ्चपूलाः समासार्थ इति बहुवचनप्रसङ्गेऽतिदेश आरभ्यते, तदाह - प्रत्यधिकरणं वचनोत्पतेः संख्यासामानाधिकरण्याच्च द्विगोरेकवचनविधानमिति। अधिकरणं द्रव्यम्, संख्यावाची पञ्चादिशब्दः, यत्संख्याविशिष्ट्ंअ द्रव्यमभिधीयते तदभिधानयोग्यं वचनमुत्पद्यते। पञ्चपूलीशब्देन पञ्चपूलाः समाह्रियमाणा उच्यन्ते, अतः समासार्थस्य पञ्चादिभिः सामानाधिकरण्याद् द्विवचनबहुवचनप्रसङ्गे एकवचनं विधीयत इत्यर्थः। संख्यासामानाधिकरण्यादित्यनेन कर्मसाधनत्वं समाहारशब्दस्य दर्शयति, भावसाधने तु वैयदिकरण्यंपञ्चानां पूलानाम्। न वा समाहारैकत्वादिति, अयमर्थः - तिरोहितावयवभेदः समूहरूपः समाहारो द्विग्वर्थस्तस्यैकत्वाद्वनादिवदेकवचनसिद्धेर्नात्र सूत्रेण प्रयोजनम्। अवश्यं च तद् भावसाधनः समाहार आश्रयणीयः अन्यथा पञ्चानां खट्वानां समाहारः पञ्चखट्वीत्यत्र वा टाबन्त इति स्त्रीत्वपक्षेखट्वाशब्दस्यानुपसर्जनत्वात् ह्रस्वो न स्यात्। अनुपसर्जनत्वं चाप्रथमानिर्द्दिष्टत्वादनेकविभक्तित्वाच्च। भावसाधने तु पञ्चानां खट्वानां समाहारः, समाहारं समाहारेणेति समासार्थस्य नानाविभक्तियोगेऽपि खट्वाशब्दस्य नित्यं षष्ठ।ल्न्तत्वात् ठेक विभक्ति चऽ इत्युपसर्जनत्वाद् ह्रस्वत्वं सिध्यति, एकवचनमित्येतदुतरार्थं कर्तव्यमेव। पञ्चपूलीति। ठकारान्तोतरपदो द्विगुः स्त्रियां भाष्यतेऽ इति स्त्रीलिङ्गत्वाद्'द्विगोः' इति ङीप्॥