अव्ययीभावश्च

2-4-18 अव्ययीभावः च स नपुंसकम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अव्ययीभावश्च समासो नपुंसकलिङ्गो भवति। अधिस्त्रि। उपकुमारि। उन्मत्तगङ्गम्। लोहितगङ्गम्। पूर्वपदार्थप्रधानस्यालिङ्गतैव प्राप्ता, अन्यपदार्थप्रधानस्याभिधेयवल्लिङ्गता, अत इदमुच्यते। अनुक्तसमुच्चयार्थश्चकारः॥ पुण्यसुदिनाभ्यामह्नः क्लीबतेष्यते॥ पुण्याहम्। सुदिनाहम्॥ पथः संख्याव्ययादेः क्लीबतेष्यते॥ त्रिपथम्। चतुष्पथम्। विपथम्। सुपथम्॥ क्रियाविशेषणानां च क्लीबतेष्यते॥ मृदु पचति। शोभनं पचति॥

Siddhanta Kaumudi

Up

अयं नपुंसकं स्यात् ॥ ह्रस्वो नपुंसके प्रातिपदिकस्य <{SK318}> । गोपायतीतीति गाः पातीति वा गोपाः । तस्मिन्नित्यधिगोपम् । समीपे । कृष्णस्य समीपमुपकृष्णम् । समया ग्रामम्, निकषा लङ्काम्, आराद्वनादित्यत्र तु नाव्ययीभावः ॥<!अभितः परितः !> (वार्तिकम्) ॥ अन्यारात् <{SK595}> इति द्वितीयापञ्चम्योर्विधानसामर्थ्यात् । मद्राणां समृद्धिः सुमद्रम् । यवनानां व्यृद्धिर्दुर्यवनम् । विगता ऋद्धिव्यृद्धिः । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययोऽतिहिमम् । अत्ययो ध्वंसः । निद्रा सम्प्रति न युज्यते इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इति हरि । विष्णोः पश्चादनुविष्णु । पश्चाच्छब्दस्य तु नायं समासः । ततः पश्चात्स्रंस्यते इति भाष्यप्रयोगात् । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । अनुरूपम् । रूपस्य योग्यमित्यर्थः । अर्थमर्थं प्रति प्रत्यर्थम् । प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञाविधानसामर्थ्यात्तद्योगे द्वितीयागर्भं वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वक्ष्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपदिति विग्रहे ॥

Laghu Siddhanta Kaumudi

Up

अयं नपुंसकं स्यात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अव्ययीभावश्च>> - अव्ययीभावश्च । अयं नपुंसकमिति ।स नपुंसक॑मित्यतस्तदनुवृत्तेरिति भावः । नपुंसकत्वस्य फलमाह-ह्रस्वो नपुंसक इति । गोपायतीति । रक्षतीत्यर्थः ।गुपू रक्षणे॑विच् ।आयादय आर्धधातुके वा॑ इत्यायप्रत्ययः । 'लोपो व्योः' इति यलोपः ।वेरपृक्तस्ये॑ति वकारलोपः । गोपाशब्द अकारान्तः । गाः पातीति । पातेर्विचि उपपदसमासे गोपाशब्द इति भावः । अधिगोपमिति । विभक्त्यर्थेऽव्ययीभावसमासे सुब्लुकि नपुंसकत्वे ह्रस्वत्वे सति 'नाव्ययीभावात्' इत्यमिपूर्वरूपमिति भावः । 'गोस्त्रियोः' इति तु नात्र प्रसज्यते, स्त्रीप्रत्ययान्तत्वाऽभावात् । समीपे इति । समीपार्थकाव्ययस्य समासे उदाहरणं वक्ष्यत इत्यर्थः । कृष्णस्य समीपमिति । लौकिकविग्रहवाक्यमेतत् । अत्र समस्यमानस्य उपशब्दस्य स्थाने समीपमिति प्रयुक्तम् । कृष्णस्य-उप इति तु न विग्रहः नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । ननु समया ग्रामं, निकषा लङ्कामाराद्वनादित्यत्रापि समयाद्यव्ययानां समीपार्थकत्वादव्ययीभावः स्यात्, ततश्चग्रामं समया, ग्रामं निकषा, वनादारा॑दिति च प्रयोगो न स्यात् । अव्ययीभावसमासेऽव्ययस्य पूर्वनिपातनियमादित्यत आह समयेति । विधानसामर्थ्यादिति । समया ग्रामं, निकषा लङ्कामाराद्वनादित्यत्र शेषषष्ठआं सत्यामपि अव्ययीभावसमासे सति प्रातिपदिकावयवत्वादुपपदविभक्त्योः द्वितीयापञ्चम्योः षष्ठआ वा लुकि समासात्प्रातिपदिकार्थादिविवक्षायां सर्वासु विभक्तिषु जातासु यथायथसम्भावे तद्विकल्पे चसमयाग्रामं॑,निकषालङ्कमाराद्वनं,॑समयाग्रामेण॑, निकषालङ्केन, 'आराद्वनेन'समयाग्रामे॑,निकषालङ्के॑, 'आराद्वने' इति स्यादेव । ततश्च द्वितीयापञ्चम्योर्विधिव्र्यर्थः स्यात् । षष्ठऐव गतार्थत्वात् । नच समासात्पुनरुपपदविभक्ती द्वितीयापञ्चम्यौ शङ्क्ये, सकृत्प्रवृत्तयोः पुनः प्रवृत्त्य योगात् । वस्तुतस्तु मध्यार्थकसमयाशब्दयोगे द्वितीयाविधानस्य दूरार्थकाराच्छब्दयोगे पञ्चमीविधानस्य चरितार्थत्वादिदमयुक्तम् । नचैवं सतिसमया ग्राम॑मित्यादावव्ययीभावः शङ्क्यः, अब्भक्ष इत्यादाविव विभक्त्यर्थसमीपादिमात्रवृत्त्यव्ययस्यैव ग्रहणात्, समयानिकषाऽऽराच्छब्दानां चाधिकरणशक्तिप्रधानतया समीपमात्रवृत्तित्वाऽभावात् । ग्रामस्य समीपे इति हि तेषामर्थः । उपशब्दस्तु तन्मात्रवाची । 'उपकृष्णं भक्ता' इत्यत्र कृष्णसामीप्यवन्त इति बोधात् । मद्राणां समृद्धिरिति । स॑मित्यव्ययपर्यायः समृद्धिशब्दो विग्रहवाक्ये ज्ञेयः । एतत्सूत्रविहितसमासस्य नित्यतयाऽस्वपदविग्रहः । एवमग्रेऽपि ज्ञेयम् । संमद्रमिति । सर्वत्र सुब्लुगादि पूर्ववज्ज्ञेयम् । समृद्धा मद्राः संमद्रा इत्यादौ तु नाव्ययीभावः, वचनग्रहणसामर्थ्येनाव्ययार्थप्राधान्य एव तत्प्रवृत्तेरिति भाष्ये स्पष्टम् । यवनानां व्यृद्धिः दुर्यवनमिति । दुर्शब्दार्थको व्यृद्धिशब्दो विग्रहे ज्ञेयः । विगतेति । अभावप्रतियोगिनीत्यर्थः । ऋद्धेरभावो व्यृद्धिरिति यावत् । नचार्थाभावेऽयमिति भ्रमितव्यं, समस्यमानपदार्थाऽभावस्यैव तत्र विवक्षितत्वात् । इह च यवनाऽभावस्याऽप्रतीतेः । यवनीयवृद्ध्यभावस्यैव प्रतीतेः । तद्ध्वनयन्नर्थाऽभावे उदाहरति — मक्षिकाणामभावो निर्मक्षिकमिति । विग्रहे निर्शब्दसमानार्थकमभावपदमिति भावः । घटः पटो नेत्यत्र तु नाव्ययीभावः, अर्थग्रहणसामर्थ्येनात्यन्ताऽभावस्यैव विवक्षितत्वात् । हिमस्यात्ययोऽतिहिममिति । अतीत्यव्ययपर्यायोऽत्ययशब्दो विग्रहे ज्ञेयः । अर्थाभावेत्यनेन पौनरूक्त्यं निरस्यति-अत्ययो ध्वंस इति । अर्थाऽभावशब्देनाऽत्यन्ताभाव एव विवक्षितः । तेन पटस्य प्रागभावो निष्पटमिति न भवतीति भावः । सूत्रे असंप्रतीत्यस्य संप्रति न युज्यते इत्यर्थः ।एतर्हि संप्रतीदानी॑मित्यमरः । युजिक्रियान्तर्भावेण एकार्थीभावान्नञ्समासः । तदाह — निद्रा संप्रति न युज्यते इत्यतिनिद्रमिति । अतीत्यव्ययस्याऽसंप्रत्यर्थकस्य स्थाने 'संप्रति न युज्यते' इति विग्रहवाक्यं ज्ञेयम् । सूत्रे 'शब्दप्रादुर्भाव' इत्यनेन शब्दस्य प्रकाशनं विवक्षितं, तदाह — हरिशब्दस्य प्रकाश इतिहरि इति ।इती॑त्यव्ययं शब्दप्रकाशे वर्तते । तस्य हरिशब्देन स्वरूपपरेण षष्ठन्तेन समास इति भावः । विष्णोः पश्चादनुविष्णु इति । 'अनु' इत्यव्ययं पश्चादर्ते वर्तते इत्यर्थः । भाष्येति । 'अचः परस्मिन्' इति सूत्रभाष्ये इत्यर्थः । 'ततः पश्चात्' इत्यत्राव्ययीभावे तु पश्चाच्छब्दस्य पूर्वनिपातः स्यादिति भावः । एतद्भाष्यप्रयोगादेव एतत्सूत्रे तत्तदर्थबोधकपदघटकतया गृहीताव्ययेन तत्तदर्थकेनाऽयं समासो नेति विज्ञायते । अत एव 'यथाऽसादृश्ये' इति सूत्रेसादृश्यसंपत्तीति प्राप्नोती॑त्येवोक्तं भाष्ये । यथाशब्देन तु भवत्येव समासः, उत्तरसूत्रारम्भात् । सूत्रे यथाशब्देन तदर्थो लक्ष्यते । यथार्थे विद्यमानमव्ययं समस्यते इति लभ्यत इत्यभिप्रेत्याह — योग्यतेति । अनुरूपमिति । अत्रानु इत्यव्यय योग्यतायाम्, अतो यथार्थे वर्तत इति भावः । अर्थमर्थं प्रतीति — लौकिकविग्रहवाक्यम् । अत्र वीप्सायां द्विर्वचनम् ।लक्षणेत्थंभूताख्यान॑ इति वीप्सायां द्योत्यायां प्रतेः कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । समासे तु द्विर्वचनं न, समासेन वीप्साया द्योतितत्वात् — इति 'हयवरट्' इति सूत्रे कैयटः । प्रतिना तस्योक्तत्वादिति तु तत्त्वम् । प्रतिना तस्योक्तत्वादिति तु तत्त्वम् । नन्वर्थमर्थं प्रतीति लौकिकविग्रहप्रदर्शनं न संभवति । नित्यसमासत्वादित्यत आह — प्रतिशब्दस्येति । सामर्थ्यादिति । अव्ययीभावसमासस्य नित्यत्वे तु शेषषष्ठआमपि अव्ययीभावे सुब्लुकि समासात् सर्वविभक्तीनामम्भावे तद्विकल्पे च प्रत्यर्थं प्रत्यर्थेनेत्यादिसिद्धे द्वितीयाफलकं प्रते कर्मप्रवचनीयत्वविधानमर्थकं स्यादिति भावः । वस्तुतस्तु प्रतिस्थानमित्यादौ 'उपसर्गात्सुनोति' इति षत्वाऽभावसंपादन#एन कर्मप्रवचनीयत्वं चरितार्थमेव ।अर्थमर्थं प्रति प्रत्यर्थ॑मितिसरूपाणा॑मिति सूत्रे भाष्ये प्रयोगदर्शनादिह वैकल्पिकसमास इति तत्त्वम् । शक्तिमनतिक्रम्येति ।परावरयोगे चे॑ति क्त्वाप्रत्ययः । परावरत्वं च बौद्धम् । अत् यथेत्यव्ययं पदार्थानतिक्रमे वर्तत इत्यर्थः । हरेः सादृश्यं सहरीति । अत्र सहेत्यव्ययं सादृश्ये वर्तत इति भावः । वक्ष्यमाणनेति । 'अव्ययीभावे चाकाले' इत्यनेनेत्यर्थः । ज्येष्ठस्यानुपूर्व्येणेति ।कार्यं कृ॑मिति शेषः । तत्तद्विभक्त्या विग्रह इति पक्षाभिप्रायेणेदम् । पूर्वस्य क्रमेण इत्यनुपूर्वं । ततः स्वार्थे यञ् । एतत्सूत्रगृहीताव्ययेन समासो नेत्यनुपदमेवोक्तम् । तथापि सूत्रगृहीतानुनाऽप्यनुज्येष्ठमिति समासः, अनुपूर्वेति निर्देशात् । सूत्रे युगपच्छब्दात्स्वार्थे ष्यञि यौगपद्यशब्दः । तद्ध्वनयन्नाह — चक्रेण युगपदिति । युगपत्पर्यायस्य सहशब्दस्य चक्रेण इत्यनेन समासे कृते सतीत्यर्थः । युगपच्छब्देन तु न समासः, सूत्रे गृहीतत्वादिति भावः ।

Padamanjari

Up

अव्ययीभावश्च॥ पूर्वपदार्थप्रघानस्येति। अधिस्त्रीत्यादौ पूर्वपदार्थस्यालिङ्गत्वादिलिङ्गतैव प्राप्नोति। अन्यपदार्थप्रधानस्येति। उन्मत्त्गङ्गमित्यादेः। पुष्याहमिति। कर्मधारये राजाहः सखिभ्यष्टच्ऽ, रात्राह्नाहाः पुसिऽ इत्यस्यापवादः। सुदिनमिति। सुदिनशब्दः प्रशस्तवचनः। सुदिनासु समासु कार्यमेतदिति तथा। त्रिपथमिति। षष्ठीसमासः। द्विगोः पात्रादित्वात्सिद्धम्। विरूपः पन्था विपथम्,प्रादिसमासः। क्रियाविशेषणानां चेति। क्रियाद्वारेण स्त्रीलिङ्गत्वे प्राप्ते वचनम्॥