विभाषा समीपे

2-4-16 विभाषा समीपे एकवचनम् द्वन्द्वः च अधिकरणैतावत्त्वे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अधिकरणैतावत्त्वस्य समीपे विभाषा द्वन्द्व एकवद् भवति। उपदशं दन्तोष्ठम्, उपदशा दन्तोष्ठाः। उपदशं मार्दङ्गिकपाणविकम्, उपदशा मार्दङ्गिकपाणविकाः। अव्ययस्य संख्ययाव्ययीभावोऽपि विहितो बहुव्रीहिरपि, तत्रैकवद्भावपक्षेऽव्ययीभावोऽनुप्रयुज्यते, इतरत्र बहुव्रीहिः॥

Siddhanta Kaumudi

Up

अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे समाहार एवेत्येवंरूपो नियमो वा स्यात् । उपदाशं दन्तोष्ठम् । उपदश दन्तोष्ठाः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषा समीपे>> - विभाषा समीपे । 'अधिकरणैतावत्त्वे' इत्यनुवर्तते । 'समीपे' इत्यस्य सामीप्येन परिच्छिन्ने सतीत्यर्थः । फलितमाह — अधिकरणेति । उपदशं दन्तोष्ठमिति । दशानां समीपे इत्यर्थेऽव्ययीभावः । उक्तरीत्याऽसामर्थ्येऽपि वचनसामर्थ्यात्समाहारद्वन्द्वः । समानलिङ्गवचनत्वादव्ययीभावस्यैवाऽनुप्रयोग इति भाष्यम् । अत एवोपदशं दन्तोष्ठेनेत्यादि सिद्धम् । समीपसमीपिनोरभेदविवक्षायां सामानाधिकरण्यम् । नवत्वसङ्ख्ययदन्तोष्ठसमूहः, एकादशत्वसङ्ख्यदन्तोष्ठसमूह इति वा बोधः । उपदशा दन्तोष्ठा इति । इतरेतरयोगद्वन्द्वोऽयम् । दशानां समीपे ये सन्ति ते उपदशा इति बहुव्रीहिः । नव एकादश वेत्यर्थः ।बहुव्रीहेरेवात्राऽनुप्रयोगः, समानलिङ्गवचनत्वा॑दिति भाष्यम् ।

Padamanjari

Up

विभाषा समीपे॥ ठधिकरणैतावत्वेऽ इत्यधिकारात्समीपरूप एतस्मिन्निति गम्यते, वृतौ त्वर्थमात्रं दर्शितम्। अधिकरणैतावत्वस्य समीप इति। अत्र च भावप्रधानः समीपशब्दः, अधिकरणैतावत्वस्य सामीप्ये परिच्छितावित्यर्थः। अत्र विस्पष्ट एव नियमस्य प्रतिषेधः, न हि विभाषा समाहारद्वन्द्वः प्रतिषेध्यः। अव्ययीभावो विहित इति। ठव्ययं विभक्तिऽ इत्यादिना। यद्यप्यत्र सङ्ख्ययेति नास्ति, सङ्ख्ययापि तु भवत्येव। बहुव्रीहिरिति।'सङ्ख्ययाव्ययासन्न' इत्यादिना। तत्रैकवद्भावपक्षेऽव्ययीभावोऽनुप्रयुज्यत इति एकार्थस्यैकार्थ इति भावः। ऐकार्थ्यञ्च तस्य सामीप्यप्रधानत्वात्। यद्यप्यव्ययीभावोऽव्ययत्वान्निः - सङ्ख्यस्तथापि भेदाभावरूपमैकार्थ्यमस्त्येव। सामानाधिकरण्यं च सामीप्यतद्वतोरभेदाश्रयेण प्रतिपाद्यम्। अधिकरणैतावत्वमपि समाहारसमाहारिणोर्भेदाविवक्षयैवोपपाद्यम्। इतरत्र बहुव्रीहिरिति। बह्वर्थस्य बह्वर्थ इति भावः। बह्वर्थत्वं च तस्य समीपिप्रधानत्वात्। ननु द्वन्द्वार्थस्यैकवद्भावादनुप्रयोगस्याप्येकवचनता सिद्धा, किमेतया क्लिष्टकल्पनया? उच्यते - अव्ययीभावस्यैवानुप्रयोगे तस्याव्ययत्वा द्वहुत्वाभावाद् बहुवचनं न स्यात्,सत्यपि वा तस्मिन्नम्भावे कृते उपदशा इति न स्यात्। बहुव्रीहेरेव चानुप्रयोगे उपदशस्य पाणिपादस्येति षष्ठी स्याद्, उपदशम्पाणिपादस्येति चेष्यते; अतो यथोक्तमेव साधीयः॥