2-4-15 अधिकरणैतावत्त्वे च एकवचनम् द्वन्द्वः च न
index: 2.4.15 sutra: अधिकरणैतावत्त्वे च
न इति वर्तते। अधिकरणं वर्तिपदार्थः। स हि समासस्य अर्थस्य अधारः। तस्य एतावत्त्वे परिमाणे गम्यमाने द्वन्द्वो न एकवद् भवति। यथायथम् एकवद् भावः प्राप्तः प्रतिषिध्यते। दश दन्तोष्ठाः। दश मार्दङ्गिकपाणविकाः।
index: 2.4.15 sutra: अधिकरणैतावत्त्वे च
द्रव्यसङ्ख्यावगमे एकवदेवेति नियमो न स्यात् । दश दन्तोष्ठाः ॥
index: 2.4.15 sutra: अधिकरणैतावत्त्वे च
अधिकरणैतावत्त्वे च - अधिकरणैतावत्त्वे च । अधिकरणं-द्रव्यं, तस्य एतावत्त्वम्-इयत्ताविशेषः । तदाह — द्रव्यसङ्ख्यावगमे इति । समस्यमानपदार्थस्येयत्ताविसेषे पदान्तरसमभिव्याहारगम्ये इत्यर्थः । नियमो नेति । 'ब्राहृप्रजापती' इत्यादौ समाहार एव द्वन्द्व #इति नियमस्य प्रकृतस्याऽप्रवृत्तेरेकवत्त्वनिषेधः पूर्वसूत्रे आश्रितः । इह तु बाधकाऽभावात्प्रकृतस्य नियमस्यैव निषेध आश्रित इति भावः । दश दन्तोष्ठा इति । दन्ताश्च ओष्ठाश्चेति विग्रहः । इतरेतरयोगद्वन्द्वोऽयं, न तु समाहार द्वन्द्वः । समासार्थसमाहारविशेषणीभूतसमस्यमानपदार्थानां पदान्तरलभ्यदशत्वसापेक्षत्वेनाऽसामर्थ्यात् । इतरेतरयोगद्वन्द्वस्तु भवत्येव, तत्र समस्यमानपदार्थानामेव प्रधानत्वात् ।उपमितं व्याघ्रादिभिः॑ इति सूत्रभाष्ये प्रदानस्य सापेक्षत्वेऽपि समासाभ्युगमात् । ततश्चात्रैकवदेवेति नियमाऽभावे सति असामर्थ्यात्समाहारत्वे निवृत्ते परिशेषादितरेतरयोगत्वमेवावतिष्ठते । यदि त्वेकवन्न स्यादित्येव व्याख्यायेत, तर्हि समाहारद्वन्द्वो नेत्यर्थः पर्यवस्येत् । तथा सति 'दश दन्तोष्ठाः' इतीतरेतरयोगद्वन्द्वो न स्यात्,द्वन्द्वश्च प्राणितूर्ये॑ति तन्निषेधात् । तताच वाक्यमेव स्यात् । किंच समाहारद्वन्द्वनिषेधोऽयं व्यर्थ एव, उक्तरीत्या सापेक्षत्वेनाऽसामर्थ्यादेवऽप्राप्तेः । अत एकवदिति नियमो न स्यादित्येव व्याख्ययेम् । एवं च प्राण्यङ्गनिबन्धनस्य एकवदेव स्यादिति नियमस्य इतरेतरयोगद्वन्द्वनिवृत्तिफलकस्याऽनेन निषेधे सति इतरेतरयोगद्वन्द्वस्यावस्थितिः फलतीति पदमञ्जर्या स्पष्टम् ।
index: 2.4.15 sutra: अधिकरणैतावत्त्वे च
अदिकारणैतावत्वे च॥ वृत्तिर्वर्तःउ समासः, सोऽस्यास्तीति समासावयवभूतं वर्तिपदम्, तस्यार्थोऽधिकरणमित्युच्यते, कथं पुनस्तदधिकरणमित्याह - स हीति। नियमस्य चात्र प्रतिषेधः प्राण्यङ्गादीनां समाहार एवेति नियमो वर्तिपदार्थस्येयतायां गम्यमानायां न भवतीति, न पुनः पूर्वसूत्रवत्समाहारद्वन्द्वस्य प्रतिषेधः। यद्येवम्, प्रतिषिद्धेऽपि नियमे'दश दन्तोष्ठाः' इत्यधिकरणैतावत्वेऽपि'चाथे द्वन्द्वः' इत्यनेन समाहारेऽर्थे द्वन्द्वः स्यादेव, ये चात्र प्रकरणेऽसंकीर्तितास्तेषु नियमस्याप्रसङ्गादसत्यस्मिन्प्रतिषेधे'चार्थे द्वन्द्वः' इत्यनेन समाहारे द्वन्द्वः स्यादेव - दश ब्राह्मणक्षत्रिया इति, अतः प्रकृतानामन्येषां च सर्वेषामेकवचनो द्वन्द्वो न भवति, ठधिकरणैतावत्वेऽ इति समाहारद्वन्द्व एव प्रतिषेध्यः? उच्यते - ठधिकरणं वर्तिपदार्थःऽ इत्युक्तम्, न च समाहारद्वन्द्वे वतिपदार्थस्यैतावत्वं शक्यं प्रतिपादयितुम्, दशादिशब्दप्रयोगेऽपि हि तस्यैव द्वन्द्वार्थस्य समाहारस्य सङ्ख्याविशेषोऽवगम्यते, न वर्तिपदार्थस्य, यथा द्विगौ - दशपञ्चपूल्य इति। अतो वर्तिपदार्थस्य सङ्ख्याविशेषं प्रतिपिपादयिषताऽवश्यमितरेतरयोग द्वन्द्वो विधेय इति दशब्रह्माणक्षत्रिया इत्यादौ तावददोषः। यद्येवम्, अनेनैव न्यायेन'दश दन्तोष्ठः' इत्यादावपि समाहारद्वन्द्वो न भविष्यतीति नार्थः प्रतिषेधेन? मैवम्; असत्यस्मिन्प्रतिषेधे प्राण्यङ्गादीनां समाहार एवेति नियमादितरेतरयोगद्वन्द्वो न स्यात्। न च समाहारद्वन्द्वे दशादिप्रयोगेऽपि वर्तिपदार्थस्य सङ्ख्याविशेषः प्रतिपादयितुं शक्य इति अधिकरणैतावत्वे प्रतिपिपादयिषिते द्वन्द्व एव न स्यादित्यारभ्यः प्रतिषेधः। दश दन्तोष्ठा इति। अत्र दशशब्दस्य प्रत्येकं सम्बन्धाद्वर्तिपदार्थस्येयता गम्यते, समुदायसम्बन्धेऽपि दन्तोष्ठात्मकवर्तिपदार्थगतैव सङ्ख्या॥