2-4-14 न दधिपयः आदीनि एकवचनम् द्वन्द्वः च
यथायथमेकवद्भावे प्राप्ते प्रतिषेध आरभ्यते। दधिपयआदीनि शब्दरूपाणि नैकवद् भवन्ति। दधिपयसी। सर्पिर्मधुनी। मधुसर्पिषी। ब्रह्मप्रजापती। शिववैश्रवणौ। स्कन्दविशाखौ। परिव्राट्कौशिकौ। प्रवर्ग्योपसदौ। शुक्लकृष्णौ। इध्माबर्हिषी। निपातनाद् दीर्घः। दीक्षातपसी। श्रद्धातपसी। मेधातपसी अध्ययनतपसी। उलूखलमुसले। आद्यावसाने। श्रद्धामेधे। ऋक्सामे। वाङ्मनसे॥
एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनाद्दीर्घः । ऋक्सामे । वाङ्मनसे ॥
<<न दधिपयआदीनि>> - न दधिपयाअदीनि । नैकवत्स्युरिति । एषां समाहारद्वन्द्वो नास्तीत्यर्थः । दधिपयसी इति । दधि च पयश्चेति विग्रहः ।जातिरप्राणिना॑मिति नित्यमेकवत्त्वं प्राप्तं बाधित्वा व्यञ्जनद्वन्द्वात्वाद्विकल्पः प्राप्तः, सोऽपि न भवति । इध्माबर्हिषी इति । इध्मं च बर्हिश्चेति विग्रहः । दीर्घ इति ।इध्मशब्दस्ये॑ति शेषः । ऋक्सामे इति । ऋक्च साम चेति विग्रहः ।अचतुरे॑त्यादिनाऽच्समासान्तः । वाङ्मनसे इति । वाक्च मनश्चेति विग्रहः । पूर्ववत्समासान्तः । अत्र गणेब्राहृप्रजापती॑इत्यादि पठितम् ।समाहारद्वन्द्व एवे॑ति नियमप्रकरमेपि नानेन नियमस्यैव निषेधः, 'ब्राहृप्रजापती' इत्यादौ नियमस्याऽप्राप्तेः । किंत्वेकवत्त्वस्यैव । तथाच 'चार्थे' इति समाहारद्वन्द्वस्य निषेधः फलति ।
न दधिपय आदीनि॥ यथायथमिति। व्यञ्जनत्वाद्विकल्पस्य प्राप्तिस्तत्रादितिस्त्रिषु, पूर्वसूत्रविकल्पस्य शुक्लकृष्णाविति, न त्विह। यद्येवम्, प्रतिषिद्धेऽस्मिन्विकल्पे जातिलक्षणो नित्यः स्यादेकवद्भावः? परिहारोऽत्र वक्ष्यते - स्त्रियां यदुक्तं तन्नेति। यथा षट्स्वभिधास्यते तथात्राप्येकवद्भावमात्रमेव निषिध्यते । किं च, ब्रह्मप्रजापत्यादिष्वत्र पठितेषु समाहारद्वन्द्वनिषेधमुखेनेतरेतयोगद्वन्द्वो व्यवस्थाप्यते, तत्साहचर्यादेतेष्वपि चतुर्षु तदेव युक्तम्॥