विप्रतिषिद्धं चानधिकरणवाचि

2-4-13 विप्रतिषिद्धं च अनधिकरणवाचि एकवचनम् द्वन्द्वः च विभाषा

Kashika

Up

index: 2.4.13 sutra: विप्रतिषिद्धं चानधिकरणवाचि


परस्परविरुद्धं विप्रतिषिद्धम्। विप्रतिषिद्धार्थानां शब्दानामनधिकरणवाचिनामद्रव्यवाचिनां द्वन्द्व एकवद् भवति। विभाषानुकर्षणार्थश्चकारः। शीतोष्णम्, शीतोष्णे। सुखदुःखम्, सुखदुःखे। जीवितमरणम्, जीवितमरणे। विप्रतिषिद्धम् इति किम्? कामक्रोधौ। अनधिकरणवाचि इति किम्? शीतोष्णे उदके।

Siddhanta Kaumudi

Up

index: 2.4.13 sutra: विप्रतिषिद्धं चानधिकरणवाचि


विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् । शीतोष्णम् । शीतोष्णे । वैकल्पिकः समाहारद्वन्द्वः चार्थे <{SK901}> इति सूत्रेण प्राप्तः स विरुद्धार्थानां यदि भवति तर्ह्यद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः । विप्रतिषिद्धं किम् । नन्दकपाञ्चजन्यौ । इह पाक्षिकः समाहारद्वन्द्वो भवत्येव ॥

Balamanorama

Up

index: 2.4.13 sutra: विप्रतिषिद्धं चानधिकरणवाचि


विप्रतिषिद्धं चानधिकरणवाचि - विप्रतिषिद्धं च ।विभाषे॑त्यनुवर्तते । विप्रतिषेधो विरोधः, सहानवस्थानलक्षणः । अधिकरणं-द्रव्यम् । अद्रव्यवाचि विरुद्धार्थकं च यदनेकं सुबन्तं तदवयवको द्वन्द्वो विभाषैकवद्भावक इत्यर्थः । फलितमाह — विरुद्धार्थानामिति । गोत्वाआत्वम् । गोत्वाआत्वे । सुखदुःखं सुखदुःखे इत्याद्युदाहरणम् । ननु 'चार्थे' इति इतरेतरयोगसमाहाराभ्यामेवात्र एकवत्त्वविकल्पसिद्धेरिदं व्यर्थम् । नचजातिरप्राणिना॑मिति नित्यं प्राप्तं विकल्पार्थमिति वाच्यं, जातिप्रवृत्तिनिमित्तकद्रव्यवाचिनां द्वन्द्व एव तत्प्रवृत्तेरित्यत आह — वकल्पिक इत्यादि, नियमार्थमिदमित्यन्तम् । तेनेति । उक्तनियमेनेत्यर्थः । शीतोष्णे उदके स्त इति । अत्र विरुद्धार्थकत्वेऽपि द्रव्यवाचित्वान्न समाहारद्वन्द्व इति भावः । नन्दकपाञ्चजन्यमिति । विष्णोः कङ्गो नन्दकः, शङ्खस्तु पाञ्चजन्यः, तयोरेकत्र विष्णौसहावस्थानान् विरुद्धत्वमिति स्थितिः । इह विप्रतिषिद्धग्रहणाऽभावे 'चार्थे' इति समाहारद्वन्द्वोऽद्रव्यवाचिनामेवेति नियमो लभ्येत । एवं सति नन्दकपाञ्चजन्यमिति पाक्षिकसमाहारद्वन्द्वो न स्यात्, समाहारद्वन्द्वस्य सर्वस्यापि अद्रव्यवाचिनामेवे॑ति नियमो लभ्यते । एवं सति नन्दकपाञ्चजन्यमिति पाक्षिकसमाहारद्वन्द्वो न स्यात्, समाहारद्वन्द्वस्य सर्वस्यापि अद्रव्यवाचिष्वेव नियमितत्वात् ।विप्रतिषिद्ध॑मित्युक्तौ तुविरुद्धार्थानां समाहारद्वन्द्वश्चेत्तर्हि अद्रव्यवाचिनामेवे॑ति नियमो लभ्यते । नन्दकपाञ्चजन्ययोश्चाऽविरुद्धत्वादयं नियमो न प्रवर्तते । ततश्च द्रव्यवाचित्वेऽपि 'चार्थे' इति रदाचित्समाहारद्वन्द्वः, कदाचिदितरयोगद्वन्द्वश्च भवत्येव । तदाह — इह पाक्षिकः समाहारद्वन्द्वो भवत्येवेति ।

Padamanjari

Up

index: 2.4.13 sutra: विप्रतिषिद्धं चानधिकरणवाचि


विप्रतिषिद्धं चानधिकरणवाचि॥ पस्परविरुद्धमिति। सहानवस्थानादिलक्षणो विरोधः,'विप्रतिषिद्धानाम्' इत्यादिसूत्रे तु तद्वाच्यवयवत्वाद् द्वन्द्वरूपमेव तथोक्तमिति भावः। अद्रव्यवाचिनामिति। एतेनाधिकरणशब्दो द्रव्ये वर्तते, नाधार इति दर्शयति। न हि द्वन्द्वावयवानामाधारे वृत्तिः सम्भवति; विभक्त्यर्थत्वादाधारस्येति भावः। अयमपि नियमार्थः प्रारम्भ; नियमस्वरूपं च - य एकवचनो द्वन्दो विभाषाप्राप्तः स यदि विप्रतिषिद्धवाचिनां भवत्यद्रव्यवाचिनामेव, द्रव्यवाचिनां त्वितरेतरयोग इति॥