2-4-11 गवाश्वप्रभृतीनि च एकवचनम् द्वन्द्वः च
गवाश्वप्रभृतीनि च कृतैकवद्भावानि द्वन्द्वरूपाणि साधूनि भवन्ति। गवाश्वम्। गवाविकम्। गवैडकम्। अजाविकम्। अजैडकम्। कुब्जवामनम्। कुब्जकैरातकम्। पुत्रपौत्रम्। श्वचण्डालम्। स्त्रीकुमारम्। दासीमाणवकम्। शाटीपिच्छकम्। उष्ट्रखरम्। उष्ट्रशशम्। मूत्रशकृत्। मूत्रपुरीषम्। यकृन्मेदः। मांसशोणितम्। दर्भशरम्। दर्भपूतीकम्। अर्जुनशिरीषम्। तृणोलपम्। दासीदासम्। कुटीकुटम्। भागवतीभागवतम्। गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम्, रूपान्तरे तु नायं विधिर्भवति। गोऽश्वम्। गोऽश्वौ। पशुद्वन्द्वविभाषैव भवति॥
यथोच्चारितानि साधूनि स्युः । गवाश्वम् । दासीदासमित्यादि ॥
<<गवाश्वप्रभृतीनि च>> - गवाशम्वप्रभृतीनि च । यथागणे गणितानि तथैव साधीनित्यर्थः । गवाआमिति । गावश्चाआआश्चेति विग्रहः । अत्रविभाषा वृक्षे॑ति पशुद्वन्द्वत्वाद्विकल्पे प्राप्ते नित्योऽयं विधिः ।अत्रसर्वत्र विभाषे॑ति प्रकृतिभावे पूर्वरूपे च गो-अआं, गोऽआमिति नैकवत्त्वनियमः,यथोच्चारितानी॑त्युक्तेः, गणे च गवाआमित्येव निर्देशात् । गवाआआदिषुयथोच्चारितं द्वन्द्ववृत्तमिति वार्तिकमत्र मानम् । दासीदासमिति । अत्रैकवत्त्वनियमः । पुमान्स्त्रिये॑त्येकसेषस्तु निपातनान्न । इत्यादिति । गवाविकं गवैडकमित्यादि वृत्तौ स्पष्टम् ।
गवाश्वप्रभृतीति च॥ द्वन्द्वरूपाणीति अन्वयात्प्रभृतीनीति नपुंसकोपपतिः। गवाश्वप्रभृतीनि कृतैकवद्भावान्येव पठ।ल्न्ते, तेषामनेन साधुत्वमात्रं विधीयते, न त्वेकवद्भाव इत्याह - गवाश्वप्रभृतीनीति। गवाश्वादीनां चतुर्णाम्पशुद्वन्द्वे विभा षायां प्राप्तायां वचनम्। एवमुष्ट्रखरम्, उष्ट्रशशमिति। दर्भशरादीनां तृणोलपपर्यन्तानां तृणद्वन्द्वे विभाषायां प्राप्तायां दासीदासादीनाम्'पुमान्स्त्रिया' इत्येकशेषाभावोऽपि निपातनात्। शाटीपटीकमित्यादीनामप्राणिजातिवचनानामबहुप्रकृत्यर्थः पाठः। अन्येषां कुब्जवामनादीनामप्राप्ते वचनम्। यथोच्चारितं द्वन्द्ववृतमिति। गणे याद्दशाः कृतावङदेशाः पठितास्ताद्दशानामेव द्वन्द्ववृतं द्वन्द्वकार्यमेकवद्भावलक्षणं भवति। रूपान्तरेष्विति। ठवङ् स्फोटायनस्यऽ इति विकल्पितत्वाद्यदा नास्ति तदेत्यर्थः। एतेन गणपाठे रूपमेषां विवक्षितम्, न पूर्वोतरपदनिर्देशमात्रे तात्पर्यमित्युक्तं भवति॥