चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः

2-3-73 चतुर्थी च अशिषि आयुष्यमद्रभद्रकुशलसुखार्थहितैः अनभिहिते षष्ठी शेषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आशिषि गम्यमानायाम् आयुष्य मद्र भद्र कुशल सुख अर्थ हित इत्येतैर्योगे चतुर्थी विभक्तिर्भवति। चकारो विकल्पानुकर्षणार्थः। शेषे चतुर्थीविधानात् तया मुक्तेषष्ठी विभक्तिर्भवति॥ अत्रायुष्यादीनां पर्यायग्रहणं कर्तव्यम्॥ आयुष्यं देवदत्ताय भूयात्, आयुष्यं देवदत्तस्य भूयात्। चिरं जीवितं देवदत्ताय देवदत्तस्य वा भूयात्। मदं्र देवदत्ताय देवदत्तस्य वा भूयात्। भद्रं देवदत्ताय, भदं्र देवदत्तस्य। कुशलं देवदत्ताय, कुशलं देवदत्तस्य। निरामयं देवदत्ताय, निरामयं देवदत्तस्य। सुखं देवदत्ताय, सुखं देवदत्तस्य। शं देवदत्ताय, शं देवदत्तस्य। अर्थो देवदत्ताय, अर्थो देवदत्तस्य। प्रयोजनं देवदत्ताय, प्रयोजनं देवदत्तस्य। हितं देवदत्ताय, हितं देवदत्तस्य। पथ्यं देवदत्ताय, पथ्यं देवदत्तस्य। आशिषीति किम्? आयुष्यं देवदत्तस्य तपः॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य तृतीयः पादः॥

Siddhanta Kaumudi

Up

एतदर्थैर्योगे चतुर्थी वा स्यात्पक्षे षष्ठी आशिषि । आयुष्यं चिरञ्जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शमर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् ? देवदत्तस्यायुष्यमस्ति । व्याख्यानात्सर्वत्रार्थग्रहणम् । मद्रभद्रयोः पर्यायत्वादन्यतरो न पठनीयः ॥ इति षष्ठी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः>> - चतुर्थी च । एतदर्थैरिति । आयुष्य, मद्र भद्र, कुशल, सुख, अर्थ, हित-एतदर्थकैरित्यर्थः । पक्षे षष्ठीति । चकारेण तत्समुच्चायावगमादिति भावः । आयुष्यपर्यायश्चिरञ्जीवितमिति । कुशलं निरामयमिति मद्रभद्रपर्यायौ । शमिति सुखपर्यायः । प्रयोजनमित्यर्थपर्यायः । पथ्यमिति हितपर्यायः ।हितयोगे चे॑ति नित्यचतुर्थी तु नाशिषि ज्ञेया । ननुस्वं रूपमि॑ति परिभाषया आयुष्यादिशब्दानामेव ग्रहणमुचितमित्यत आह — व्याख्यानादिति । ननु मद्रभद्रयोः पृथग्ग्रहणादेतदर्थैरिति व्याख्यानमयुक्तमित्यत आह — मद्रभद्रयोरिति । इति षष्ठी ।

Padamanjari

Up

चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः॥ आयुष्यादीनां सुखपर्यन्तानां द्वन्द्वं कृत्वार्थशब्देन बहुव्रीहीविधानादर्थशब्देनायुष्यादिभिः प्रत्येकं सम्बन्धः। तत्र मद्रभद्रशब्दयोः पर्यायत्वात्सूत्रे भद्रशब्दो न पठितव्य इति केचिदाहुः। अन्ये त्वर्थशब्दोऽपि पृथगेव निमितम्, व्याख्यानाच्च सर्वत्रार्थग्रहणं वर्णयन्ति। वृतावपि क्वचिदर्थशब्दोऽप्युदाह्रियते। हितं देवदतस्येति।'हितयोगे चतुर्थी वक्तव्या' इत्यस्यानाशिषि चरितार्थत्वादाशिषि हितयोगेऽप्यनेन विकल्पेन भाव्यम्; अन्यथाऽत्र हितग्रहणमनर्थकमिति मन्यते॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्या द्वितीयाध्यायस्य तृतीयः पादः॥