2-3-7 सप्तमीपञ्चम्यौ कारकमध्ये अनभिहिते कालाध्वनोः अत्यन्तसंयोगे
कालाध्वनोरिति वर्तते। कारकयोर्मध्ये यौ कालाध्वानौ, ताभ्यां सप्तमीपञ्चम्यौ विभक्ती भवतः। अद्य भुक्त्वा देवदत्तो द्व्यहे भोक्ता, द्व्यहाद् वा भोक्ता। त्र्यहे त्र्याहाद् वा भोक्ता। कर्तृशक्त्योर्मध्ये कालः। इहस्थोऽयमिष्वासः क्रोशे लक्ष्यं विध्यति, क्रोशाल्लक्ष्यं विध्यति। कर्तृकर्मणोः कारकयोः कर्मापादानयोः कर्माधिकरणयोर्वा मध्ये क्रोशः। संख्यातानुदेशो न भवति, अस्वरितत्वात्॥
शक्तिद्वयमध्ये यौ कालाध्वनौ ताभ्यामेते स्तः । अद्य भुक्त्वाऽयं द्व्यहे द्व्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्येऽयं कालः । इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येत् । कर्तृकर्मशक्त्योर्मध्येऽयं देशः । अधिकशब्देन योगे सप्तमीपञ्चम्याविष्येते । तदस्मिन्नधिकम् <{SK1846}> इति यस्मादधिकम् <{SK645}> इति च सूत्रनिर्देशात् । लोके लोकाद्वा अधिको हरिः ॥
<<सप्तमीपञ्चम्यौ कारकमध्ये>> - सप्तमीपञ्चम्यौ । कारकशब्दः कर्तृत्वादिशक्तिपरः, न तु कत्र्रादिपरः, व्याख्यानात् । मध्यस्यावधिद्वयसापेक्षत्वात्कारकयोर्मध्यमिति विग्रहः । तदाह — शक्तिद्वयमध्ये इति । 'कालाध्वनोः' इत्यनुवृत्तं पञ्चम्यन्ततया विपरिणम्यत इत्याह — यौ कालाध्वानाविति । अद्य भुक्त्वेति । सामीपिकाधिकरणत्वे सप्तम्यामेव प्राप्तायां वचनम् । अद्य भुक्त्वा द्व्यहे अतीते तत्समीपे तृतीयेऽह्नि भोक्तेत्यर्थः । भविष्यति लुट् । कर्तृशक्त्योरिति । अद्यतनभुजिक्रियानिरूपितकर्तृत्वस्य, द्व्यहोत्तरदिनगतभुजिक्रियागिरूपितकर्तृत्वस्य चेत्यर्थः । कारकशब्दस्य कत्र्रादिपरत्वे त्विह न स्यात्, क्त्वाप्रत्ययस्य कत्र्रेकत्वे विधानात् । कर्तृशक्तिस्तु भुजिक्रियाभेदाद्भिद्यत एव । कारकद्वयमध्येऽप्युदाहरति — इहस्थोऽयमिति । इहापि देशतः सामीपिकमधिकरत्वं पञ्चमीसप्तम्योरर्थः । इहतिष्ठन्नयमिष्वास इषुणा क्रोशोत्तरसमीपदेशे लक्ष्यं विध्येदित्यर्थः । कर्तृकर्मशक्त्योरिति । कर्तृत्वकर्मत्वरूपशक्त्योर्मध्य इत्यर्थः । कारकशब्दस्य कत्र्रादिपरत्वे त्विहैव स्यात् । अद्य भुक्त्वायमित्यत्र न स्यादिति सूचयितुमिदमष्युदाहृतम् । ननु लोके लोकाद्वा अधिको हरिरित्यत्र अवधित्वसंबन्धे शेषषष्ठएवोचितेत्याशङ्क्याह — अधिकशब्देनेति । लोके लोकाद्वेति । अवधित्वसंबन्धः सप्तमीपञ्चम्योरर्थः । लोकापेक्षया श्रेष्ठ इत्यर्थः ।
सप्तमीपञ्चम्यौ कारकमध्ये॥ कारकमध्य इति। मध्यस्यावधिद्वयापेक्षत्वाद् द्विवचनान्तेन समासः, कालाध्वनोश्चैतद्विशेषणमित्याह - कारकयोर्मध्ये यौ कालाध्वानाविति। अद्य भुक्त्वेत्यादि। ननुं चात्र देवदत एकः कर्ताः तत्कथं कारकयोर्मध्ये काल इत्याह - कर्तृशकत्योरिति। स्यादेवं यदि द्रव्यं कारकं स्यात्, शक्तिस्तु कारकम्, सेह भिद्यते - एका अद्य भुजेः साधनम्, अपरा द्व्यहभुजेः, तेनानयोर्मध्ये काल इत्यर्थः। कर्तृकर्मणोरिति। इषूनस्यतीष्वासः पुरुषः स कर्ता, इष्वसने व्यधने स्थाने वा कर्म लक्ष्यम्। अर्मापादानयोरिति। कर्म तदेव सामर्थ्याद् गम्यमानं धनुरपादानं यतः शरा अपयन्ति। कर्माधिकरणयोर्वेति। कर्म तदेवाधिकरणमिहेति निर्द्दिष्टः प्रदेशः। इह कालाध्वानौ द्वौ, सप्तमीपञ्चम्यावपि द्वे, ततश्च संख्यातानुदेशः प्राप्नोति - कालात्सप्तमी, अध्वनः प्रञ्चमीति, अत आह - संख्यातानुदेश इत्यादि। अस्वरितत्वादिति। स्वरितेन लिङ्केन यथासंख्यमित्येतत् तत्रैव प्रतिपादितम्॥